________________
१२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
परस्परमत्यन्त्यविलक्षणपरिमाणवतोरपि । साम्यप्रसङ्गः परिमाणतारतम्याभावप्रसङ्गः । अयमभिसन्धिः -यदि मेरोर्महापर्वतस्य अवयवविभागाः क्रियेरन् , अथ च ततोऽत्यन्तनिकृष्टस्य सर्षपबीजस्यापि अवयवा विभज्येरन् । परमुभयोः कुत्रापि अवयवविभागविश्रान्तिर्न स्वीकृता स्यात् , तदाऽवश्यं स्वीकर्तव्यम्भवेत्, यदुभयो: परिमाणकारणीभूता अवयवसङ्ख्या तुल्यैवेति । अवयवसङ्ख्यातौल्ये च उभयोः परिमाणसाम्ये तौल्यापत्तिः, नत्वेवं दृश्यते । तस्मादवयवधारायाः कचिद्विश्रान्तिरवश्यं वाच्या ।
नन्वस्तु क्वचिद्विश्रामः, परं विश्रामाश्रयो नित्यो निरवयवश्चेति किमत्र गमकमित्यारेकायां विश्रामाश्रयस्य नित्यतां साधयितुमाह-“यत्र तु"-इति । "असमवेत"-इति । असमवेतञ्च तद्भावकार्यमिति कर्मधारयः।
इदमत्राकृतकम्-अवयवधाराया यो विश्रामस्याश्रयः, असौ चेदनित्यः तर्हि तस्य किमपि समवायिकारणं वक्तव्यम् , अन्यथा भावकार्योत्पत्तिर्न स्यात् । नित्यश्चेत्तदा स एवास्माकं परमाणुः । ततोऽतिरिक्तो घटाद्यवयवी अनित्य इति परमाणुपुञ्जवादी बौद्धः परास्तः। - अत्रैव युक्त्यन्तरमाह-"महत्परिमाण”- इति । तारतम्यम्-न्यूनाधिकभावः । ब्रसरेणुमारभ्य आकाशाद्यन्तं महत्परिमाणस्य न्यूनाधिकभावो विश्रान्तः, अर्थान्महत्परिमाणस्य परा काष्ठा प्राकाशादिः, एवमामलक्यादिकमारभ्याणुपरिमाणस्यापि क्वचिद्विश्रामोऽवश्यं स्वीकार्यः समानन्यायात् । यश्चाणुपरिमाणस्य चस्मोऽवधिः, यतो न किमप्यणु, स एव परमाणुः । उनञ्च-"न प्रलयोऽणुसद्भावात्" (४ । २ । १६) सूत्रे न्यायभाष्ये-“यस्मान्नाल्पतरमस्ति, य: परमोऽल्पस्तत्र निवर्त्तते, यतश्च नाल्पीयोऽस्ति तम्परमाणुम्प्रचक्ष्मह" इति संक्षेपः । गगनादावितिआदिना कालदिगात्मानो ज्ञेयाः ।
ननु सरेणुरेव परमाणुर्मन्यतां किमतः परं कल्पनया ? इत्याशङ्कमानम्प्रति पूर्वोत्तरपक्षविधया अथ्नाति-"नच"-इत्यादि । ब्रसरेणुरपि सावयवः, तदवयवो ब्यणुकमपि सावयवमिति के द्वाभ्यामनुमानाभ्यां साधितम्, ततश्च त्रसरेणु: तदवयवश्चापि न परमाणु: । किन्तु ब्यणुकावयव एव परमाणुरिति सिद्धान्तः। ___“यञ्चाक्षुषं तत्सावयव"मिति प्रथमप्रयोगे व्याप्ति:, यया त्रसरेणो: सावयवतासिद्धिः । “यो महदवयवः (महत्परिमाणवतः कार्यस्यारम्भकोऽवयवः) असावपि सावयवः” इति द्वितीयप्रयोगे व्याप्तिः, यया व्यणुकस्यापि सावयवता निराबाधा।
ननु-अप्रयोजकमिदमनुमानं यत् ब्रसरेणो: सावयवतासाधकमित्याशङ्कमानम्प्रति अप्रयोजकताशङ्कावारणाय प्रथ्नाति “नच" इत्यादि । अप्रयोजकम-अनुकूल
* द्वाभ्यामिति-"त्रसरेणुः सावयवः' इत्यादिनेत्यर्थः ।