________________
श्रवयविसिद्धि परमाणु सिद्धिश्च ।
9
दृश्यत्वम् ( दर्शनयोग्यता ) श्रदृश्यत्वम् ( श्रदर्शनयोग्यता ) वा कस्यचित्पदार्थस्य स्वाभाविको धर्मः ( स्वरूपसम्बन्धावच्छिन्नो धर्मः ) । किन्तु – महत्त्वादिकारणकलाप - हेतुकं दृश्यत्वादिकम्बोध्यम् । श्रादिना श्रालोकादिपरिग्रहः । बौद्धमते तु परमाणुपुञ्जे महत्त्वादिकारणकलापाभावात् कथम्प्रत्यक्षत्वं * स्यात् । एवञ्च तज्जन्यस्य घटादेरपि प्रत्यक्षतानापत्तौ “श्रयं घटः” “घटमानय" इत्यादिलौकिकव्यवहारविलोपो बौद्धमतेऽनिवार्य इति नैयायिकस्य हृदयम् । अक्षराणि तु स्पष्टार्थानि ।
कटाहस्थतैलघृतादावपि दृश्य एव वह्निर्नत्वदृश्यः । दृश्यैरेव वह्नेरवयवैः स्थूलस्य वह्नेत्पत्तिः । श्रन्यथा उत्पद्यमानो वह्निरपि दृश्य : (चातुषप्रत्यवेद्य : ) न भवेत् इति सिद्धान्तिनोऽभिप्रायः । पुनराक्षिप्य समाधत्ते - " नचादृश्येन" - इति । अक्षराणि स्पष्टानि । दृश्यत्वमदृश्यत्वञ्च न कस्यचित्पदार्थस्य स्वाभाविकः ( स्वरूपसम्बन्धावच्छिन्नो) धर्मः । किन्तु यत्र महत्त्वोद्भूतरूपादिकारणसमुदायः तत्र दृश्यत्वम् (चाक्षुषसाक्षात्कारयोग्यता ), यत्र तु न तथा तत्र श्रदृश्यत्वम्बोध्यमित्युक्तमेव । त्रसरेणोः महत्त्वमुद्भूतरूपञ्च वर्त्तते श्रतोऽसौ दृश्यः । द्व्यणुके तु न तथा तत्र महत्त्वोद्भूतरूपादिकारणाभावात् । नन्वेवं परमाणोरपि पुञ्जावस्थायां दृश्यत्वमितरथा तु श्रदृश्यत्वमिति का क्षतिरित्याशङ्कायां ग्रन्थान्तरमाह - "नच " - इति । तव बौद्धमते नेयं दृश्यत्वादृश्यत्वव्यवस्था यतः परमाणौ न महत्त्वं नाप्युद्भूतरूपादिकमित्यर्थः ।
(मुक्का० ) इत्थञ्चावयविसिद्धौ तेषामुत्पादविनाशयोः प्रत्यक्षसिद्धत्वादनित्यत्वम् । तेषाञ्चावयवावयवधाराया अनन्तत्वे मेरुसर्षपयोरपि साम्यप्रसङ्गः । श्रतः क्वचिद्विश्रामो वाच्यः । यत्र तु विश्रामस्तस्यानित्यत्वेऽसमवेतभाव कार्योत्पत्तिप्रसङ्ग इति तस्य नित्यत्वम् । महत्परि माणतारतम्यस्य गगनादौ विश्रान्तत्वमिवाणुपरिमाणतारतम्यस्याऽपि कचिद्विश्रान्तत्वमस्तीति तस्य परमाणुत्वसिद्धि: । नच त्रसरेणावेव विश्रामोऽस्त्विति वाच्यम्, त्रसरेणुः सावयवः चानुपद्रव्यत्वात् घटवदित्यनुमानेन तदवयवसिद्धौ त्रसरणोरवयवाः सावयवाः महदारम्भकत्वात् कपालवदित्यनुमानेन तदवयवसिद्धेः । नचेदमप्रयोजकम्, अपकृष्टमहत्त्वं प्रत्यनेकद्रव्यत्वस्य प्रयोजकत्वात् । नचैवं क्रमेण तदवयवधारापि सिद्धयेदिति वाच्यम्, अनवस्थाभयेन तदसिद्धेरिति ।
(प्रभा० ) " इत्थञ्च ” – इति । उक्तरीत्या श्रर्थात् परमाणौ महत्त्वाद्यभावात् परमाणुपुञ्जस्य प्रत्यक्षासिद्धेः, ततोऽतिरिक्त एव घटाद्यवयवी पदार्थः सचानित्यः, यजन्यं तदनित्यमिति व्याप्तेः । " तेषाम् " - इति । घटाद्यवयविनामित्यर्थः । श्रवयवधारायाः=श्रवयवप्रवाहस्य | अनन्तत्वे - सङ्ख्याशून्यत्वे । मेरुसर्षपयोः=
* परमाणुपुञ्जस्य प्रत्यक्षत्वं धर्मः कथं स्यात् ? कथमपि न भवेदित्याशयः ।