________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
दानत्वात् । अन्यथा चतुरूष्मादिसन्ततेरपि कदाचिद् दृश्यत्वप्रसङ्गात् । नचातितप्ततैलादौ कथमदृश्यदहनसन्ततेदृश्यदहनोत्पत्तिरिति वाच्यम् , तत्र तदन्तःपातिभिदृश्यदहनावयवैः स्थूलदहनोत्पत्तेरुपगमात् । नचाऽ. दृश्येन घणुकेन कथं दृश्यत्रसरेणोरुत्पत्तिरिति वाच्यम्, यतो न दृश्यत्वमदृश्यत्वं वा कस्यचित्स्वभावादाचक्ष्महे । किन्तु-महत्वोद्भूतरूपादिकारणसमुदायवशाद् दृश्यत्वं तदभावे चादृश्यत्वम् । तथाच-- त्रसरेणोर्महत्त्वात्प्रत्यक्षत्वं नतु घणुकादेस्तदभावात् । नहि त्वन्मतेऽपि सम्भवतीदम्परमाणौ महत्त्वाभावात् ।
(प्रभा०) बौद्धपक्षमुत्थाप्य खण्डयति “नच" इत्यारभ्य 'दृश्यानुपादानत्वात्" इत्यन्तेन । तदानीम् कार्योत्पत्तिकाले। अदृश्यपरमाणुपुक्षात् दर्शनानर्ह (प्रत्यक्षायोग्य)परमाणुसमुदायात् । दृश्यपरमाणुपुञ्जस्य प्रत्यक्षार्हपरमाणुसमुदायस्य । उत्पन्नत्वात्-जातत्वात् न प्रत्यक्षत्वे विरोध इति योजना । "अयं घट" इति प्रत्यक्षप्रतीते ऽनुपपत्तिरिति भावः । “अदृश्यस्य दृश्यानुपादानात्" इति । अत्रकार्यधर्मस्य कारणधर्मानुरोधित्वमित्यभिप्रायः सिद्धान्तिन: । वैपरीत्ये बाधकमुपन्यस्यति-"अन्यथा"-इति । अन्यथा-अदृश्यस्य दृश्योत्पादकत्वस्वीकारे । चक्षुरूष्मादिसन्ततेः-चक्षु नेत्रेन्द्रियम् , उष्मा धर्मविशेषः तयोः सन्ततः= सन्तानस्यापि दृश्यत्वप्रसङ्गात् साक्षात्कारयोग्यतापत्तेः । यद्यदृश्य दृश्योपादानं स्यात् तदा चतुरिन्द्रियस्य उष्मणश्चापि चाक्षुष: साक्षात्कार: स्यात् , नतु तथा दृश्यते, तस्माददृश्यं न दृश्योपादानमित्यर्थः ।
पुनराशङ्कय समाधत्ते “नच” इत्यादिना । अतितप्ततैलादावित्यक्षरार्थो निगदव्याख्यातः।
कटाहस्थतैलघृतादौ पूरिकापर्पटादिपरिपाचनकाले तत्रादृश्यो वह्निर्भवति, यतो जलादिप्रक्षेपे दृश्यवढेरुत्पत्तिर्जायते । एवञ्चादृश्यमपि दृश्योपादानमिति पूर्वपक्षयितुराशयः । तत्र-अतितप्ततैलादौ । तदन्तःपातिभिः अतितप्ततेलान्तःपातिभिः । स्वभावात्-कारणापेक्षाराहित्यात् । अन्तःपातिनो दृश्यस्य दहनस्यावयवास्तरेव दृश्यभूतैः दृश्यभूतस्य स्थूलस्य वढेरुत्पत्तिनत्वदृश्यं दृश्योपादानमिति सिद्धान्तिनोऽभिप्रायः ।
सिद्धान्ती पुनराक्षिप्य समाधत्ते "नच" इत्यादिना । ब्यणुकस्य न प्रत्यक्षमतोऽदृश्यं तद्भवति, तत उत्पन्नस्य त्रसरेणोः प्रत्यक्षमिति त्रसरेणुद्देश्यः । एवञ्च अदृश्यादपि दृश्योत्पत्तौ अदृश्यं न दृश्योपादानमितिवदनैयायिकोऽसङ्गत इत्याक्षेप्तुराकूतकम् ।
सिद्धान्तग्रन्थस्याऽयमाशयः-महत्त्वोद्भूतरूपादिकारणसमुदायवत्त्वं दृश्यत्वं तद्भिन्नत्वमदृश्यत्वमिति दृश्यादृश्यत्वयोर्विवेकः । ब्रसरेणी महत्त्वादिकं तेनाऽसौ दृश्य: प्रत्यच अणुके तु न महत्त्वादिकं तत्कथं दृश्यं (प्रत्यक्षं) स्यात् । तस्मात्र