________________
- -- --
परमाणुपुञ्जवादनिरासः, अवयविसिद्धिश्च ।
तत्साधनाय प्रत्यक्षम्प्रमाणमप्यलमिति शङ्काकर्तृहृदयम् । सिद्धान्तिनोऽभिप्रायमुत्थाप्य खण्डयति बौद्धः "नच" इत्यादिना । परमाणूनाम्-अतीन्द्रियत्वात् इन्द्रियागोचरत्वात् घटादेः परमाणुपुञ्जात्मकस्य घटादिपदार्थस्य प्रत्यक्षं न स्यादित्यर्थः । यद्यपि परमसूक्ष्मा: परमाणवो नैकैकमिन्द्रियगोचरा: तथापि तत्समुदायस्तु भवती. न्द्रियगोचर इति "अयं घट" इत्यादिप्रत्यक्ष नानुपपत्तिः । तत्समूहस्य-परमाणुसमूहस्य । एतद् दृष्टान्तेन समर्थयति स एव-"यथा"- इति । एकस्य दूरे दूरत्वदोषे सति अप्रत्यक्षत्वेऽपि-इन्द्रियागोचरत्वेऽपि तत्समूहस्य-केशसमूहस्य । प्रत्यक्षत्वम् । पुनराशङ्कय समाधातुमाह-"नच"- इति । यथा-धान्यसमूहस्यैकत्वात् "एक" इति प्रतीति: । एवमेव संयोगविशेष एव महत्तात्मको येन परमाणुपुले सुच्मेऽपि "महान् घट" इत्याकारा प्रतीतिरिति भावः । पुनराशङ्कय स्वपक्षे स्थापयति परमाणुपुञ्जवादी (बौद्धः) "नच" इत्यादिना । स्पष्टम् । .
सिद्धान्ती (अवयविवादी-पदार्थान्तरोत्पत्तिवादी) समाधत्ते “मैवम्" इत्यादिना । अत्रायमाशयः- "परमाणुः परमसूक्ष्म आदिरवयवः स्वयं निरवयवः अतीन्द्रियो नित्य" इति नैयायिकवैशेषिकाणां सिद्धान्तः । उक्तञ्च
___ जालसूर्यमरीचिस्थं सूक्ष्मं यद्ः दृश्यते रजः ।
तस्य षष्ठतमो भाग: परमाणुः स उच्यते ॥ इति ॥ केचित् “पष्ठितमो भाग” इति पठन्ति । * अत्र युक्ताऽयुक्रत्वं सुधियो विवेचयन्तु । “मूर्त्तत्वे सति निरवयवत्वम्परमाणुत्वम्'' इत्यत्र तु न परमाणुवादिनां विवादः, ऋते बौद्धसिद्धान्तात् । तेषां मते उत्पत्तिविनाशवन्तः क्षणभङ्गुराश्च परमाणवः । (प्रास्तान्तावदियं चिन्ता प्रकृतमनुसरामः)।
___ एवम्भूतः परमाणुरतीन्द्रियः तत्समूहोऽपि अतीन्द्रिय एव । यथैकस्य परमाणोरतीन्द्रियत्वेन प्रत्यक्षं न जायते, तत्समूहस्यापि प्रत्यक्षत्वेऽयोग्यतैव । यत्तु-एकस्य दूरस्थकेशस्याप्रत्यक्षत्वेऽपि तत्समूहस्य प्रत्यक्षत्ववत्परमाणुसमूहप्रत्यक्षकथनं बौद्धस्य तदविचारिताभिधानम् , दूरस्थकेशस्तु स्वभावतो नातीन्द्रियः सन्निधाने सामीप्ये तस्यैव प्रत्यक्षत्वात् । एतदाशयेनाह- "परमाणोरतीन्द्रियत्वेन"- इत्यादि । एवञ्च प्रत्यक्षयोग्यतावतः केशस्य दूरत्वप्रतिबन्धकतया तदा न प्रत्यक्षं तदपगमे तु भवत्येव प्रत्यक्षम् । नतु केशस्य स्वाभाविकमप्रत्यक्षत्वं यथा परमाणो: । तथाचोकदृष्टान्तदार्टान्तभावो बौद्धस्य बुद्धिमाद्यम्प्रकटयतीति भावः ।
(मुक्का,१) नत्र तदानीमदृश्यपरमाणुपुञ्जाद् दृश्यपरमाणुपुञ्जस्योत्पन्नत्वान्न प्रत्यनत्वे विरोध - इति वाच्यम्, अदृश्यस्य दृश्यानुपा
* पष्ठतम" इति पाठस्तु "मेरुशास्त्रिगोडबाले'' इत्याख्यैः प्रणीतायां "वाक्यवृत्तौ" - वर्त्तते । अयं ग्रन्थो न्यायवैशेषिकोभयमतानुसारी पुण्यपत्तनमुद्रितः ।