________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुकावल्याः [प्रत्यक्षखण्डे व्यकोष्णः, अशीतोऽव्यक्तशीतश्च सचासौ पाकजश्चेति द्वी कर्मधारयौ । एवञ्च नानारूपवत्त्वम् , षड्विधरसवत्त्वम् , पाकजस्पर्शवत्यञ्चेति पृथिव्या लक्षणत्रयं निष्पन्नम् । शिष्टं स्पष्टम् । ननु-न्यायमते पटाद्यवयविनि नैव पाकजस्पर्श: । पाकेन पटादिदाहोत्पत्ते: पटादेरेव ध्वंस कुतस्तेषां स्पर्शः । वैशेषिकमते तु पटावयवभूतेषु परमाणुष्वेव पाको नावयविनि इति पटादो पाकासिद्धेरव्याप्तिरित्याशङ्कायां समाधातुं “यद्यपि" इत्यादि प्रथ्नाति । " पाकजस्पर्शवत्" इति । पाकजस्पर्शवन्तो ये घटाद्या श्राम्राद्याश्च तेषु वृत्तिर्वर्त्तनं यस्या: सा चासौ जातिः, अर्थात् पृथिवीत्वम् . तादृशजातिमत्त्वं "पाकजस्पर्शवत्त्व"पदेन विवक्षितमिति न | पटादौ कुत्रापि कश्चिद्दोष इत्यर्थः ।
(का०) नित्यानित्या च सा द्वेधा नित्या स्यादणुलक्षणा ॥३६॥ . .. अनित्या तु तदन्या स्यात्सैवावयवयोगिनी । ... (मुक्का०) सा पृथिवी द्विविधा नित्या अनित्या चेत्यर्थः । अणुलक्षणा परमाणुरूपा पृथिवी नित्या । तदन्या परमाणुभिन्ना पृथिवी ह्यणुकादिरूपा सर्वाप्यनित्येत्यर्थः । सैव अनित्या पृथिव्येवावयववतीत्यर्थः ।
(प्रभा०) सा पृथिवीत्यादिग्रन्थो निगदव्याख्यातार्थः ॥ ३६॥
(मुक्ता०) ननु-अवयविनि किम्मानम्परमाणुपुजैरेयोपपत्तेः । नच परमारणूनामतीन्द्रियत्वाद् घटादेः प्रत्यक्षं न स्यादिति वाच्यम् , एक स्य परमाणोरप्रत्यक्षत्वेऽपि तत्समूहम्य प्रत्यक्षत्वात् । यथैकस्य केशस्य दूरेऽ. प्रत्यक्षत्वेऽपि तत्समूहस्य प्रत्यक्षत्वम् । नचैको घटः स्थूल इति बुद्धेरनुपपत्तिरिति वाच्यम्, एको महान्धान्यराशिरितिवदुपपत्तेः । मैवम् , परमाणोरतीन्द्रियत्वेन तत्समूहस्यापि प्रत्यक्षायोग्यत्वात् । दूरस्थकेशस्तु नातीन्द्रियः, सन्निधाने तस्यैव प्रत्यक्षत्वात् । । .(प्रभा०) बौद्धः शङ्कते-"मनु" इत्यारभ्य 'उपपत्ते"रित्यन्तेन । “अयं घट” इत्याकारायाः प्रतीतेः विलक्षणसंस्थानविशिष्टैः परमाणुभिरेव निर्वाहे $ न
ॐ सत्तारूपजातिमादाय गगनादावतिव्याप्तिवारणाय "द्रव्यत्वव्याप्य" इति । द्रव्यत्वसमानाधिकरणसत्तामादायातिव्याप्तिवारणाय "व्याप्यभागः" । स्पर्शसमानाधिकरणजलत्वादिक. मादाय जलादावतिव्याप्तिवारणाय "पाकज" इति । पाकजद्रवत्वसमानाधिकरणतेजस्त्वमादाय तेजस्यतिव्याप्तिवारणाय "स्पर्श' इति । जलपृथिव्यन्यतरत्वमादाय 'जलादावतिव्याप्तिवारणाय जाति" इति।।
*पटादावित्यत्र आदिपदेन वैशेषिकमतेऽवयवयिमात्रपरिग्रहः । * अवयविवादमसहमान इति शेषः । "जलाहरणादिक्रियासिद्धौ” इति तु निगूढाशयः ।.. .. ..