________________
पृथिवीलक्षणप्रपञ्चः।
८७
पूर्वरूपनाशो रूपान्तरोत्पादश्च । सर्वथापि तु घटादिपदार्थों रूपनाशवान् तादृशे रूपनाशवति घटादौ वृत्तिर्यस्याः सा द्रव्यत्वस्य साक्षाब्याप्या जातिः पृथिवीत्वमेव, तादृशजातिमत्त्वं "नानारूपवत्त्व" पदेन विवक्षितमिति नाव्याप्तिापि चोपस्थितिकृतं गौरवमिति सर्वथा निर्दुष्टं लक्षणम् । नाशो ध्वंसः । पीलुपाकादिप्रक्रिया 8 अग्रे वच्यते । शिष्टं स्पष्टम् ।
(का०) षड्विधस्तु रसस्तत्र--
(मुक्का०) षड्विध इति । मधुरादिभेदेन यः षड्विधो रसः स पृथिव्यामेव । जले च मधुर एव रसः । अत्रापि पूर्ववद्रसद्वयवद्वृत्ति. द्रव्यत्वव्याप्यजातिमत्त्वं लक्षणार्थोऽवसेथः। _ (प्रभा०) “षड्विध इति" इति । षड्विधरसवत्वं पृथिवीत्वमित्यपरं पृथिव्या लक्षणम् । यत्र त्वाम्रादिफले षड्विधो रसो नोत्पन्नः, तत्रापि पूर्ववजातिघटितलक्षणविवक्षयाऽव्याप्तिपरिहारमतिदिशति-"अत्रापि" इति । अर्थात् रसद्वयवन्ति यानि अाम्रफलादीनि, तवृत्तिर्या द्रव्यत्वस्य साक्षाड्याप्या जातिः पृथिवीत्वं, तद्वत्त्वविवक्षायां दोषाभावः।
(का०) गन्धस्तु द्विविधो मतः ॥३५॥
(मुक्ता०) गन्धस्त्विति । द्विविध इति । वस्तुस्थितिमात्रं नतु द्विविधगन्धवत्वं लक्षणं द्विविधत्वस्य व्यर्थत्वात् । दैविध्यञ्च सौरभाऊ. सौरभभेदेन बोध्यम् ॥ ३५॥
(प्रभा०) यथा नानारूपवत्त्वादिकं पृथिवीलक्षणं तथा द्विविधगन्धवत्त्वमपि लक्षणान्तरं किन्न स्यादिति शङ्कमानम्प्रत्याह-"द्विविध" इति । "वस्तुस्थितिमात्रम्" इति । वस्तुगत्या पृथिव्यां द्विविधो गन्धस्तिष्ठति इति सूचयितुं द्विविधगन्धकथनं नतु द्वैविध्यस्य लक्षणे प्रवेश इत्यर्थः । “गन्धहेतु"रितिलक्षणेनैवास्य गतार्थत्वान्नेदं लक्षणान्तरमिति भावः ॥ ३५॥ ... (का०) स्पर्शस्तस्यास्तु विज्ञेयो ह्यनुष्णाशीतपाकजः।
(मुक्ता०) तस्याः पृथिव्या इति । अनुष्णाशीतस्पर्शवत्वं वायोरपि वर्तत इत्युक्तम्पाकज इति । इत्थश्च पृथिव्याः स्पर्शोऽनुष्णाशीत इति शापनार्थ तदुक्तम् । वस्तुतस्तु पाकजस्पर्शवत्वमा लक्षणम्, अधिकस्य वैयर्थ्यात् । यद्यपि पाकजस्पर्शः पटादौ नास्ति, तथापि पाकजस्पर्शवद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वमर्थो बोध्यः।
(प्रभा०) परममूले-"स्पर्श" इति । तस्याः पृथिव्याः स्पर्शः अनुष्णोs. * गुणप्रस्तावे "एतेषां पाकजत्वन्तु क्षितौ नान्यत्र कुत्रचित्' इत्यादिकारिकाद्वयेन ।