________________
८६
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
गुणस्य कार्ये उपलब्धिदृष्टचरी । कारणगुणानां कार्यगतगुणान्प्रति असमवायिकारणत्वात् । तथाच पारमर्षे सूत्रे-"*कारणगुणपूर्वकः कार्यगुणो दृष्टः" (वै० ५।२।२५) । कारणत्वसमवायिनो गुणाः" (वै० २।१।२४) इति ।
(का०) नानारूपवती मता।
(मुक्का०) नानारूपेति । शुक्लनीलादिभेदेन नानाजातीयं रूपं पृथिव्यामेव वर्तते नतु जलादौ, तत्र शुक्लस्यैव सत्वात् । पृथिव्यान्तु एकस्मिन्नपि धर्मिणि पाकवशेन नानारूपसम्भवात् । नच यत्र नानारूपं नोत्पन्नं तत्राऽव्याप्तिरिति वाच्यम्, रूपद्वयववृत्तिद्रव्यत्वव्याप्यजातिमत्वस्य विवक्षितत्वात्, रूपनाशवद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वस्य वा वाच्यत्वात् । वैशेषिकनये पृथिवीपरमाणौ रूपनाशस्य रूपान्तरस्य च सवात् । न्यायनये घटादावपि तत्सत्यालक्षणसमन्वयः ।
(प्रभा०) परममूले-"नानारूपवती" इति पृथिव्या लक्षणान्तरम्बोध्यम् । एतल्लच्यभूतायाम्पृथिव्यां घटयितुं ग्रन्थमवतारयति-"शुक्लनीलादिभेदेन"- इति । "पाकवशेन"-इति । पाको विजातीयतेज:संयोग: । यत्र घटादिरूपायाम्पृथिव्यां नानारूपं नोत्पन्नं तत्राव्याप्तिमाशङ्कय समाधत्ते "नच" इत्यारभ्य “विवक्षितत्वात्" इत्यन्तेन ग्रन्थेन । "रूपद्वयववृत्ति"-इति । रूपद्वयवन्तो ये केऽपि पटाद्याः पदार्थाः तेषु वृत्तिर्यस्याः, एवम्भूता या द्रव्यत्वस्य साक्षायाप्या जातिः पृथिवीत्वम् , तादृशजातिमत्त्वं नानारूपवत्पदेन विवक्षितम्, तच्च अनानारूपवत्स्वपि घटादिषु वर्तत एवेति नाव्याप्तिः । इदञ्च लक्षणमपेक्षाबुद्धिविशेषविषयकत्वरूपं यद् द्वित्वं तेन घटितम् , ततोऽत्रोपस्थितिकृतं गौरवम्भातीति तादृशगौरवपरिहाराय शीघ्रोपस्थितये लक्षणान्तरं प्रणयति-"रूपनाशवदवृत्ति”-इति । अस्यायमर्थः-यदा भ्राष्ट्रे श्रामघटो निक्षिप्यते तदा पाकेन (विलक्षणतेज:संयोगेन) पूर्व श्यामरूपं नश्यति परं रक्तं रूपमुत्पद्यते। एवमेव सर्वत्र पार्थिवेषु पदार्थेषु पाकेन पूर्वरूपपरावृत्तिर्जायते, नात्र कस्यचिद्विवादः । परन्तु पीलुपाकवादिनो वैशेषिकस्य नये पृथिवीपरमाणावेव पूर्वरूपनाशो रूपान्तरोत्पत्तिश्च पाकेन भवति । पिठरपाकवादिनो नैयायिकस्य मते तु न पृथिवीपरमाणौ पाकः । किन्तु परमाणुजन्ये घटाद्यवयविन्येव पाकः, तत्रैव
* कार्यस्य घटपदादेयों विशेषगुणो रूपादिः, स कारणगुणपूर्वकः कारणस्य कापालतन्त्वादेयों रूपादिविशेषगुण: सः पूर्व-कारणं यस्य स तथा दृष्टः उपलब्ध इति सूत्रार्थः।।
गुणाः संयोगादयो गुणाः कारणन्त्वसमवायिनः असमवायिकारणम्भवन्तीत्यर्थः । संयोगादिगुणनिष्ठा असमवायिकारणता क्वचित् कार्यैकार्थसमवायात् । यथा-आत्ममनःसंयोगस्य आत्मविशेषगुणेषु, संयोगविभागशब्दानाञ्च शब्दे । कचित् कारणैकार्थसमवायात् । यथाकपालादिरूपाणां घटादिरूपादिषु । तदेतदसमवायिकारणलक्षणेऽधस्तात् कृतव्याख्यानम् ।