________________
पृथिवीलक्षणप्रपञ्चः। .
८५
तथाच-कार्यमात्रवृत्तेर्गन्धत्वस्य कार्यतावच्छेदकत्वानुरोधेन तदवच्छिन्ने पृथिवीत्वेन हेतुत्वमावश्यकमिति भावः ।
। पाषाणादावव्याप्तिमाशङ्कय समाधत्ते–“नच" इत्यारभ्य "गन्धसत्त्वात्" इत्यन्तेन । तत्रापि-पाषाणादावपि । गन्धसत्वात् पृथिवीत्वेन गन्धानुमानात् । तदाकारश्वायम् – “पाषाणादिर्गन्धवान् पृथिवीत्वात् घटवत्" इति । यदि पाषाणादौ गन्धोऽस्ति तर्हि घ्राणेन्द्रियसंयोगेऽपि कथं न तस्योपलब्धिरितीमां शङ्कां परिहरति"अनुपलब्धिस्तु"-इति । उत्कट एव गन्ध उपलभ्यते, अनुत्कटस्तु. विद्यमानोऽपि नोपलभ्यत इति भावः । उत्कट उद्भतः न उत्कट अनुत्कटोऽनुद्भव इत्यर्थः । अत्र युक्ति सञ्चारयति-कथमन्यथा"- इति । अन्यथा पाषाणादौ पृथिवीत्वानङ्गीकारे । तद्भस्मनि-पाषाणभस्मनि।
अयम्भावः-पाषाणभस्मनि गन्ध: घ्राणजप्रत्यक्षप्रमाणसिद्धः तेन तत्र पृथिवीत्वमङ्गीकरणीयम् , ततो भस्मारम्भकावयवेष्वपि पृथिवीत्वसिद्धिरप्रत्यूहा । ये भस्मारम्भकावयवाः त एव पाषाणारम्भकावयवया इति पाषाणस्य पृथिवीत्वं तत्र च गन्धसिद्धिः । गन्धस्य पृथिवीत्वसामानाधिकरण्यनियमात् । - एतदेव "भस्मनो हि" इत्यादिग्रन्थेन विशदयति । पाषाणोपादानोपादेयत्वम् पाषाणस्य उपादानं समवायिकारणं यत्, पाषाणारम्भकं पार्थिवावयव. रूपं द्रव्यम् , तस्योपादेय व कार्यत्वमित्यर्थः । अस्मिन्नर्थे व्याप्तिनियममभिलाप्य दर्शयति-"यद् द्रव्यम्" इति । अस्थायमर्थः-यद् द्रव्यम्-भस्मादिद्न्यम् , यद् द्रव्यध्वंसजन्यम्=पाषाणादिद्रव्यध्वंसजन्यम् , तत्-भस्मादिद्रव्यम्, तदुपादानोपादेयम्=षापाणादिद्रव्यस्य यदुपादानं पृथिवीपरमाण्वादि तस्योपादेयं नाम तस्य कार्यमित्यर्थः । “पाषाणः पृथिवी पार्थिवपरमाण्वारब्धव्यत्वात् घटवत्" इत्याशयः । उक्नां व्याप्तिं दृष्टान्तेन घटयितुमाह-"दृष्टश्चैतत्”- इति । यथा महापटध्वंसजन्यः खण्डपटः महापटोपादानकारण (समवायिकारणीभूतैस्तन्तुभिर्जन्यः तथा पाषाणध्वंसजन्यं पाषाणभस्माऽपि पाषाणीयसमवायिकारणजन्यमेवेत्यर्थः । किन्तत् पाषाणस्य समवायिकारणमिति जिज्ञासायामुक्तं दृष्टान्तं दार्टान्ते सङ्गमयन्नेवाह“इत्थञ्च" इति ।
अयमभिसन्धिः -यथा महापटः तन्तुरूपैः स्वसमवायिकारणभूतैरवयवैरारब्धः, तजन्यः खण्डपटोऽपि तदवयवैरेवारब्ध: प्रत्यक्षत्वात् । नहि महापटस्यान्यत्समवायिकारणं खण्डपटस्यान्यत्समवायिकारणमित्यत्र किञ्चित्प्रमाणम्पश्यामः । किन्तूभयमपि तन्तूपादानजन्यत्वधर्मावच्छिन्नम् , एवमेव पाषाणः पृथिवीपरमाणुजन्यत्वात् पृथिवीत्वधर्मवान् (पार्थिवः) । इत्थञ्च--पृथिवीपरमाणौ गन्धसत्त्वात्पाषाणेऽपि गन्धवत्तासिद्धिः । अन्यथा तद्भस्मनि कदापि गन्धो नोपलभ्येत, नहि कारणेऽविद्यमानस्य