________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
गन्ध उपलभ्यते । भस्मनो हि पाषाणध्वंसजन्यत्यात्पाषाणोपादानोपादेयत्वं सिद्धयति । यदद्रव्यं यद्रव्यध्वंसजन्यं तत्तदुपादानोपादेयमिति व्याप्तः । दृष्टश्चैतत्खण्डपटे महापटध्वंसजन्ये । इत्थश्च पाषाणपरमाणो: पृथिवीत्वात्तज्जन्यस्य पाषाणस्यापि पृथिवीत्वम् । तथाच तस्याऽपि गन्धवचे बाधकाभावः ।
(प्रभा०) पदार्थानां साधर्म्यवैधयें निरूपिते, सम्प्रति प्रत्येकं पृथिव्यादिकं निरूपयन्नादौ पृथिवीं लक्षयति परममूले-"तत्र"-इति । मूले–“गन्धहेतुरिति" इति । अस्यार्थ:-'गन्धेत्यादि" इति । कालादीनां कार्यमात्रप्रति कारणता सर्वसम्मता । तथाच-पृथिवीलक्षणं तत्र तत्राऽतिव्याप्तमितिशङ्कमानम्प्रति "हेतु"पदस्यार्थमाह-"गन्धसमवायिकारणम्" इति । समवायेन गन्धकारणं पृथिवीलक्षणमित्यर्थः । कालः कालिकसम्बन्धेन गन्धहेतुः। दिशा देशिकसम्बन्धेन गन्धहेतुर्नतु समवायसम्बन्धेनेति न तयोरतिव्याप्तिः । नच सुरभ्यसुरभिकपालारब्धे निर्गन्धे घटे (अादिक्षणवर्तिनि) लक्षणाव्याप्तिरिति वाच्यम् , गन्धवद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वविवक्षायां दोषाभावो यतः । अर्थात् गन्धवन्तो ये कपालाद्याः, तद्वृत्तिर्या द्रव्यत्वस्य साक्षायाप्या जातिः पृथिवीत्वम् , तादृशजातिमत्त्वं गन्धवत्पदेन विवक्षितं तेनादिक्षणे निर्गन्धेऽपि घटादिपदार्थे पृथिवीत्वसत्त्वाल्लक्षणसमन्वये नाव्याप्तिदोषलेशोऽपि । अयमेव लक्षणसमन्वयप्रकारो यथायथं जलादिलक्षणेष्वपि बोध्यः । "गन्धवत्त्वं पृथिवीत्वम्' इति लघुलक्षणेनापि निर्वाहे सति “गन्धसमवायिकारणम्" इति गुरुलक्षणकरणे प्रयोजनमाह- "यद्याप”–इत्यादिना । “पृथिवीत्वं हि"इति । अस्य ग्रन्थस्यायमाशयः- “समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठकार्यतानिरूपिता तादात्म्यसम्बन्धावच्छिन्नपृथिवीत्वावच्छिन्नपृथिवीनिष्ठा या समवायिकारणता, सा किञ्चिद्धर्मावच्छिन्ना कारणतात्वात् , घटनिष्टकार्यतानिरूपितकपालगतकारणतावत् । अर्थात् यथा कपालनिष्ठा कारणता कपालत्वधर्मावच्छिन्ना तथा पृथिवीनिष्ठा कारणता अपि पृथिवीत्वधर्मावच्छिन्ना ज्ञेया" इत्यनुमानं पृथिवीत्वजाती प्रमाणमिति दर्शयितुमेव लक्षणे कारणपदनिवेश इति । विपक्षे दण्डमाह-"अन्यथा"इति । गन्धत्वावच्छिन्नम्प्रति हेतुत्वानङ्गीकारे इत्यर्थः । गन्धत्वावच्छिन्नस्य-गन्धमात्रस्य कार्यस्य । आकस्मिकत्वापत्तेः-कारणं विनापि जन्यत्वापत्तेः । परन्तु नहि कारणं विना कार्यम्भवति, यदि तथा स्यात् तदा पानीयमन्तरापि पिपासोपशमः स्यात्, खाद्यमन्तरा च तुधोपशमो भवेत्, नचैवं दृश्यते । तस्मात् यद्गन्धस्य कारणं सा पृथिवी । सा च न निरवच्छिन्ना, किन्तु केनचिद्धर्मेणावच्छिन्नैव, यश्च धर्मस्तस्या अवच्छेदकः स एव पृथिवीत्वमिति पृथिवीत्वजातिसिद्धिः । एवञ्चगन्धम्प्रति पृथिवीत्वेनाऽकारणत्वे कदाचिजलादावपि तदुत्पादः स्यादिति निगूढाशयः ।