________________
पृथिवीलक्षणम् ।
८३
(मुक्ता०) ते च खे अाकाशे ॥ ३०, ३१, ३२, ३३, ३४ ॥ (प्रभा०) वायोर्नवैकादश तेजसो गुणा जलक्षितिप्राणभृताञ्चतुर्दश ।
दिकालयोः पञ्च षडेव चाम्बरे महश्वरेऽष्टौ मनसस्तथैव ॥ . इति प्राचीनां कारिकामाश्रित्य वाय्वादीनां द्रव्याणां गुणानाह-"स्पर्शादय"इति । एतेन उद्देशक्रमानुसारेण पृथिव्यादीनां गुणाः कुतो नोक्ता इति शङ्का व्युदस्ता। स्पर्शसङ्ख्यापरिमाणपृथत्कसंयोगविभागपरत्वापरत्वानि वेगाख्यः संस्कारश्वेति नव वायोर्गुणाः । तेजसो गुणानाह-"स्पर्शाद्यष्टौं"-इति । जलगुणानाह-"स्पर्शादयोऽष्टौ" इति । पृथिव्याः गुणानाह- "स्नेहहीना"इति । प्रात्मनो गुणानाह--"बुद्धयादिषट्कम्"--इति । कालदिशो: गुणानां समत्वादाह--"सङ्ख्यादिपञ्चकम्" इति । आकाशगुणानाह--"शब्दश्च"-- इति । ईश्वरगुणानाह--“सङ्ख्यादय"-इति ।
. नव्यास्तु -सङ्ख्याबुद्धीच्छाप्रयत्नसुखानीति पञ्चैव गुणानाहुः । “न चाणोरणीयान्महतो महीयान्" इति श्रुत्याऽणुत्वमहत्त्वे तत्राधिके स्त इति वाच्यं, विरोधात् । किन्तु देशकालापरिच्छिन्नत्वरूपं महत्त्वं सर्वान्तर्यामित्वरूपमणुत्वम्, अन्यथा कथं विरुद्धयोस्तयोरेकन सम्भवः । शिष्टं स्पष्टम् ।
इति प्रभासहितायां मुक्तावल्यां साधर्म्यवैधर्म्यनिरूपणा नाम
द्वितीया मुक्का।
(प्रभा०) साधर्म्यवैधये निरूप्य सम्प्रति प्रत्येकं पृथिव्यादिकं निरूपयति(का०) तत्र क्षितिर्गन्धहेतुः
(मुक्ता०) गन्धहेतुरिति । गन्धसमवायिकारणमित्यर्थः । यद्यपि गन्धवत्वमात्रं लक्षणमुचितम्, तथापि पृथिवीत्वजातौ प्रमाणोपन्यासाय कारणंत्वमुपन्यस्तम् । तथाहि--पृथिवीत्वं हि गन्धसमवायिकारणतावच्छेदकतया सिद्धयति, अन्यथा गन्धत्वावच्छिन्नस्याकस्मिकत्वापत्तेः । नच पाषाणादौ गन्धाभावाद्गन्धवश्वमव्याप्तमिति वाच्यम्, तत्रापि गन्धः सवात् । अनुपलब्धिस्त्वनुत्कटत्वेनाप्युपपद्यते । कथमन्यथा तद्भस्मनि ___* अत्रेदम्बोध्यम्-समवायसम्बन्धेन गन्धनिष्ठाधेयतानिरूपिताधिकरणताश्रयत्वमित्यर्थः । भत्र प्राधेयो गन्धः, अधिकरणम्पृथिवी । श्राधेयता गन्धनिष्ठा, अधिकरणता पृथिवीनिष्ठा । प्राधेयतायाः अधिकरणतायाश्च परस्परं निरूप्यनिरूपकभावः सम्वन्धः । स च कश्चन स्वरूप. सम्बन्धविशेष एवेत्यधिकमन्यत्र ।