________________
८२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
बुद्धयादिषट्कं स्पर्शन्ताः स्नेह सांसिद्धिको द्रवः।
अदृष्टभावना शब्दा अमी वैशेषिका गुणा ॥ इत्यग्रे गुणग्रन्थे वक्ष्यन्ते । (का०) यदुक्तं यस्य साधर्म्य वैध→मितरस्य तत् ॥२६॥
(मुक्ता०) झेयत्वादिकं विहायेति बोध्यम् । तत्तु न कस्यापि वैधये केवलान्वयित्वात् ॥ २६ ॥
(प्रभा०) इत्थं साधर्म्यमुक्का सम्प्रति अल्पेनैव प्रकारेण वैधर्म्यमाचष्टे-- “यदुक्तमिति” । यथा-सत्तावत्त्वं द्रव्यादित्रयादन्येषां वैधर्म्यम् । अनयैव रीत्या अन्यदपि ज्ञेयम् ।
मुक्तावल्यां "ज्ञेयत्वादिकम्" इति । ज्ञेयत्वमभिधेयत्वं प्रमेयत्वन्तु न कस्यापि वैधर्म्यम् । सर्वस्य ज्ञेयत्वात् अभिधेयत्वात्प्रमेयत्वाच्च । अर्थात् ज्ञेयत्वादय: केवलान्वयिनो धर्माः । केवलान्वायन्तु--अत्यन्ताभावाप्रतियोगित्वम् * । यस्य क्वचिदप्यत्यन्ताभावो न स्यात् स धर्मः केवलान्वयी भवति । जगत्यां कश्चिदप्येवंविधः पदार्थों नं वर्तते यः कस्यचित् ज्ञेयो न स्यात् । यश्चास्मदादीनां न ज्ञेयः स योगिना. मूर्ध्वस्रोतसान्तु ज्ञेय एव । तेषामप्यज्ञेयस्तु ईश्वरीयज्ञानविषयः । एवमेवाभिधेयत्वादिकं बोध्यं, सर्वस्यैव अभिधावृत्तिविषयत्वात् । तेन ज्ञेयत्वादिकं कस्यचिदपि न वैधर्म्यमिति युक्तमुक्तं “ज्ञेयत्वादिकं विहाय"-इति ॥ २६ ॥ • (का०) स्पर्शादयोऽष्टौ वेगाख्यः संस्कारो मरुतो गुणाः ।
स्पर्शाद्यष्टौ रूपवेगौ द्रवत्वन्तेजसो गुणाः ॥३०॥ स्पर्शादयोऽष्टौ वेगश्च गुरुत्वञ्च द्रवत्वकम् । रूपं रसस्तथा स्नेहो वारिण्येते चतुर्दश ॥३१॥ स्नेहहीना गन्धयुताः क्षितावेते चतुर्दश । बुद्धयादिषट्कं सङ्ख्यादिपञ्चकम्भावना तथा ॥३२॥ धर्माधौं गुणा एते ह्यात्मनः स्युश्चतुर्दश । सङ्ख्यादिपञ्चकं कालदिशोः शब्दश्च ते च खे ॥३३॥ सल्यादयः पञ्च बुद्धिरिच्छा यत्नोऽपि चेश्वरे ।
परापरत्वे सङ्ख्यायाः पञ्च वेगश्च मानसे ॥३४॥
विशेषस्तु- त्रैविध्यमनुमानस्य केवलान्वयिभेदत" इति (१४२ ) कारिकाया मुक्तावलीव्याख्यायामग्रे द्रष्टव्यः ।