________________
पृथिव्यादीनां यथायथं गुरुत्ववत्त्वादि साधर्म्यम् ।
८१
परमाण्यादीनां योगिप्रत्यक्षविषयत्वादाह-अतिव्याप्तञ्चेति ।
"अात्मन्यतिव्याप्तिवारणाय"-इति । यदि जातिघटितलक्षणे "चाक्षुष". पदं न निवेश्येत तदा अात्मन्यतिव्याप्तिः स्त्यात् । कथमिति चेद् ? इत्थम् - सामान्यतो प्रत्यक्षविषयो यथा घटादि, तथा आत्माऽपि प्रत्यक्षविषयः, तस्मिन् अात्मनि वर्त्तते या जातिः प्रात्मत्वजातिः, तद्वत्त्वमात्मन्यस्तीति कुतो नातिव्याप्तिः? तस्मादेतद्दोषपरिहाराय "चाक्षुष"पदं दातव्यम् । अात्मनो मानसप्रत्यक्षविषयत्वेऽपि न चातुषप्रत्यक्षविषयत्वमिति नोकदोषः। __ (का०) गुरुणी द्वे रसवती
(मुक्का०) गुरुणी इति । गुरुत्ववत्त्वं रसवत्त्वं पृथिवीजलयोरित्यर्थः । नच घ्राणेन्द्रियादीनां वाय्वानीतपार्थिवादिभागानाञ्च रसादिमत्त्वे किं मानमिति वाच्यम् , तत्रापि पृथिवीत्वादिना तदनुमानात्।... ...(प्रभा०) परममूले 'द्वे” इति । पृथिव्यब्रूपे द्वे द्रव्य इत्यर्थः । “गुरुत्व. वत्त्वम्" इति । गुरुत्वम् रक्तिकामाषतोलकादि । इदमुपलक्षणम्-पतनवत्त्वमपि बोध्यम् । पतनत्वं गुरुत्वाऽसमवायिकारणककर्मत्वम् । “उल्का पतति” इत्यादि प्रयोगस्तु लाक्षणिकः । “पृथिवीजलयोः"--इति । साधर्म्यमिति शेषः । नच घ्राणेन्द्रियादीनामिति ग्रन्थः स्पष्टार्थः । अनुमानप्रकारोऽपि पूर्ववत् । अर्थात् "घाणेन्द्रियं रसादिमत् पृथिवीत्वात् जम्बीरफलवत्" इत्यादि स्वयमूहनीयम् ।
(का०) द्वयोनैमित्तिको द्रवः ॥२८॥
(मुक्का०) द्वयोरिति । पृथिवीतेजसोरित्यर्थः । नच नैमित्तिकद्रवत्ववत्त्वं घटादौ वह्नयादौ चाव्याप्तमिति वाच्यम् ; नैमित्तिकद्रवत्वसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् ॥ २८ ॥ _ (प्रभा०) “द्वयोरिति”--इति । पृथिवीतेजसो मत्तिकद्रवत्ववत्त्वं साधर्म्यमित्यर्थः । उक्तसाधर्म्यस्य घटादिषु अव्याप्तिं जातिघटितलक्षणेन वारयन् “नवे"त्यादि शङ्कासमाधानतया ग्रन्थाति । 'नैमित्तिक"-इति । नैमित्तिकद्रववत्त्वं घृतलाक्षादिपृथिव्यां वर्त्तते तत्रैव पृथिवीत्वादिर्जातिरपि । एवं तादृशद्रवत्वसमानाधिकरणा या द्रव्यस्वस्य साक्षाद्वयाप्या जातिः पृथिवीत्वादिः, तादृशजातिमत्त्वं घटादावप्यस्तीति नाव्याप्तिदोषलेश इत्यर्थः ॥ २८॥
(का०) आत्मानो भूतवर्गाच विशेषगुणयोगिनः । ..(मुक्का०) पृथिव्यप्तेजोवाय्वाकाशात्मनां विशेषगुणवत्त्वमित्यर्थः । (प्रभा०) "प्रात्मानः" इति । सर्व सुस्पष्टम् । विशेषगुणाश्च -. .........