________________
८०
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः . [प्रत्यक्षखण्डे
. (मुक्ता०) पृथिव्यतेजसां रूपवत्वम् , द्रवत्ववत्वम् , प्रत्यक्षविषयत्वश्चेत्यर्थः । नच चक्षुरादीनाम्भर्जनकपालस्थवड्रूष्मणश्च रूपवत्त्वे किं मानमिति वाच्यम्, तत्रापि तेजस्त्वेन रूपानुमानात् । एवं वाय्वानीतपृथिवीजलतेजोभागानामपि पृथिवीत्वादिना रूपानुमानम्बोध्यम् । नच घटादौ द्रुतसुवर्णादिभिन्ने तेजसि च द्रवत्ववत्त्वमव्याप्तमिति वाच्यम् , द्रवत्वववृत्तिद्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् । घृतजतुः प्रभृतिषु पृथिवीषु, जलेषु, द्रुतसुवर्णादौ तेजसि च द्रवत्वसत्त्वात् , तत्र च पृथिवीत्वादिसत्त्वात्तदादाय सर्वत्र लक्षणसमन्वयः । नच प्रत्यक्ष विषयत्वम्परमारवादावव्याप्तमतिव्याप्तञ्च रूपादाविति वाच्यम् । चाक्षुषप्रत्यक्षविषयवृत्तिद्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् । आत्मन्यति. . व्याप्तिवारणाय चाक्षुषेति।
(प्रभा०) परममूले–“रूप”-इति । द्वन्द्वान्तेतिन्यायेन योगिपदस्य प्रत्येकमन्वयः । रूपयोगित्वम् , द्रवत्वयोगित्वम् , प्रत्यक्षयोगित्वञ्च पृथिव्यादित्रयाणां साधर्म्यमित्यर्थः । तदेतद्व्याख्याति-"पृथिव्यप्तजसाम्" इत्यादिना। चक्षुरादिषु रूपवत्त्वे शङ्कामुत्थाप्य प्रमाणमाह-"नच" इत्यारभ्य “रूपानुमानात्" इत्यन्तेन ग्रन्थेन । निगदव्याख्यातो ग्रन्थः । अनुमानप्रकारश्वायम्-'चक्षुरिन्द्रियं रूपवत् तेजस्त्वात् सूर्यवत् । भर्जनकपालस्थो वह्निः रूपवान् तेजस्त्वात्" इत्यादि ज्ञेयम् । वाय्वानीतपृथिव्यायंशेषु रूपवत्तानुमानमतिदिशति-"एवम्" इति । वाय्वानीतः पार्थिवभागो रूपवान् पृथिवीत्वात् घटवत् । वाय्वानीतो जलभागो रूपवान् जलत्वात् तटाकस्थजलवत् । वाय्वानीतो वढेर्भागो रूपवान् तेजस्त्वात् महानसीयवह्निवत् । इत्यादीन्यनुमानानि तत्र तत्र रूपवत्तासाधकानि ज्ञेयानि । घटादिपृथिव्यां द्रुतसुवर्णादिभिन्ने तेजसि द्रवत्त्वस्याव्याप्तिमाशङ्कय जातिघटितेन लक्षणेन समाधत्ते"नच" इत्यारभ्य “विवक्षितत्वात्" इत्यन्तेन ग्रन्थेन । समाधानग्रन्थस्यायमर्थःद्रवत्ववति घृतलाक्षादौ वृत्तिर्यस्याः तादृशी या द्रव्यत्वस्य साक्षायाप्या जातिः "पृथिवीत्वं तेजस्त्वम्" इत्यादि, तादृशजातिमत्त्वं यथाक्रमं त्रिष्वपि पृथिव्यादिषु वर्तत इति नाव्याप्तिदोषः । स्वयं लक्षणसमन्वयं मानयति-"घृतजतुःप्रभृतिषु" इति ।
प्रत्यक्षविषयत्वस्य परमाण्वादावव्याप्तिं रूपादिषु चातिव्याप्तिमाशङ्कय जातिघटितलक्षणविवक्षया समाधत्ते "नच" इत्यादिना "विवक्षित्वात्" इत्यन्तेन । समाधानग्रन्थाक्षरार्थस्तु–चाक्षुषं (यल्लौकिक) प्रत्यक्षं, तस्य विषया ये घटादयः, तेषु वृत्तिर्यस्याः सा चासौ द्रव्यत्वस्य साक्षाद्वयल्या जातिः पृथिवीत्वं जलत्वं तेजस्त्वम् तादृशजातिमत्त्वं पृथिव्यादिपरमाणुषु वर्तते रूपादिषु च न वर्तते (तेषु रूपत्वादिजातिसत्त्वात् ) इति लक्षणसमन्वये नोक्नं दोषद्वयमिति भावः । ..