________________
आकाशात्मनो: साधर्म्यम् । अर्थात् चतु:क्षणवृत्ति ईश्वरीयज्ञानमप्यस्ति, परं तन्न जन्यम् , अतश्चतुःक्षणवृत्तिजन्यावृत्ति ईश्वरीयज्ञानं तत्र ज्ञानत्वजातिरपि सङ्ग्रहीतुं शक्यते, तादृशजातिमान् विशेषगुणो ज्ञानं तद्वत्त्वं साधर्म्यम् । परमिदं साधर्म्यमाकाशजीवेश्वराणां त्रयाणामेव । जन्यज्ञानादिकमित्यत्र आदिपदेन इच्छादेः परिग्रहः ।
___ यदि तु कारिकास्थ शरीरि' पदेन जीवात्मरूप एवार्थोऽभिप्रेतस्तदा “जन्य"पदनिवेशो न कार्य इत्याशयेनाह-"यदि"--इति । इदमुपलक्षणम्-त्रिक्षण. वृत्तित्वमेव निवेशनीय नतु चतुःक्षणवृत्तित्वमपीति बोध्यम् । ननु-ज्ञानत्वादेरतादृशतया जीवे वा कथं लक्षणसमन्वय इत्यत अाह-द्वेषत्वेत्येके । अन्ये त्वेवमवतारयन्ति-ननु जन्यत्वाप्रवेशे ज्ञानत्वेच्छात्वप्रयत्नत्वजातीनां * चतु:क्षणवृत्यवृत्तित्वाभावात् कथं लक्षणसमन्वय इत्यत आह-द्वेषत्वादिकमिति ।
अयम्भावः--"चतुःक्षणवृत्त्यवृत्तिजातिमद्विशेषगुणवत्त्वम्" क्षणिकविशेष. गुणपदेन विवक्षितम् । चतुःक्षणवृत्तीनि यानि घटादीनि रूपादीनि च, तदवृत्तिर्या • जाति: द्वेषत्वादिः, तद्वान् यो विशेषगुणो द्वेषादिः शब्दश्च तद्वत्त्वमाकाशजीवात्मनामेव यथायोगमिति न पृथिव्यादिष्वतिप्रसक्किरित्यभिप्रायवानाह-"द्वेषत्वादिकमादाय लक्षणसमन्वयाद्' इति ।
"विशेष"पदप्रयोजनमाह-"परममहत्त्वस्य" इत्यादिना । परममहत्त्वस्य तादृशगुणत्वात् इत्यस्यार्थ:-चतुःक्षणवृत्तिजन्यावृत्तिजातिमद्गुणत्वादिति ।
अयमाशयः-चतुःक्षणवृत्तीनि यानि जन्यानि घटादीनि, तदवृत्तिर्या जातिः परममहत्त्वत्वरूपा, तद्वान् गुणः परममहत्त्वमेव, तादृशगुणवत्त्वं कालेऽपि वर्तत इत्यात्माकाशसाधर्म्यस्य कालेऽप्यतिप्रसक्तिः, तद्वारणाय "विशेष"पदं दत्तम् । परममहत्त्वं सामान्यगुणो न विशेषगुण इत्यर्थः ।
एवमेव द्विस्वादिकमादाय घटादिष्वतिव्याप्तिरप्यनेन पदेन वारणीया। तथाहिचतुःक्षणवृत्तिजन्यघटावृत्तिर्या जातिः द्वित्त्वत्वादिः, तद्वान् गुणो द्वित्वादिः, तादृशगुणवान् घटादिरिति तेष्वतिव्याप्तिः स्यात् । “विशेष"पदनिवेशे तु नैव दोषः द्वित्वादीनां सामान्यगुणत्वात् । द्वित्वादीनामपि तथात्वात्-चतुःक्षणवृत्तिजन्यावृत्तिजातिमद्
गुणत्वादित्यर्थः।
उपस्थितिकृतं लाघवमभिप्रेत्य "चतुःक्षणवृत्तित्व"स्थाने "निःक्षणवृत्तित्व"पदं मन्वान आह-"त्रिःक्षणवृत्तित्वम्" इति । ज्ञानत्वजातिस्थाने द्वेषत्वादिजातिग्रहणं कृत्वा लक्षणं समन्वेतव्यम् । तथाच-योजितमेव ॥ २७ ॥ - (का०) रूपद्रवत्वप्रत्यक्षयोगिनः प्रथमास्त्रयः।
* असन्मते तु चिन्त्यमेतत् तथाकृतेऽपि तद्ग्रहादिति सूक्ष्ममीक्ष्यम् ।