________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे शब्दादिवद् विशेषगुणः परं नासावव्याप्यवृत्तिः । किन्तु स्वाश्रये सर्वदेशावच्छेदेन वर्तत इत्यर्थः । शिष्टं स्पष्टम् ।
_ (मुक्ता०) नच रूपादीनामपि कदाचित्तृतीयक्षणे नाशसम्भवात् क्षणिकविशेषगुणवत्त्वं क्षित्यादावतिव्याप्तमिति वाच्यम्, चतुःक्षणवृत्तिजन्यावृत्तिजातिमद्विशेषगुणवत्त्वस्य तदर्थत्वात् । अपेक्षाबुद्धिः क्षणत्रयं तिष्ठति, क्षणचतुष्टयन्तु न किमपि जन्यज्ञानादिकं तिष्ठति। रूपत्वादिकन्तु क्षणचतुष्टयस्थायिन्यपि रूपादौ वर्तत इति तद्व्युदासः । ईश्वरज्ञानस्य चतुःक्षणवृत्तित्वाज्ज्ञानत्वस्य तवृत्तित्वाजन्येत्युक्तम् । यद्याकाशजीवात्मनोः साधर्म्यन्तदा जन्येति न देयम् , द्वेषत्वादिकमादाय लक्षणसमन्वयात् । परममहत्त्वस्य तादृशगुणत्वाच्च चतुर्थक्षणे द्वित्वादीनामपि नाशाभ्युपगमाद् द्वित्वादीमपि तथात्वात्तद्वारणाय विशेषेति । त्रिक्षणवृत्तित्वं वा वाच्यम् । द्वेषत्वादिकमादायात्मनि लक्षणसमन्वयः ॥२७॥
___ (प्रभा०) यदा कदाचिद् यस्य कस्यापि रूपादिविशेषगुणस्य तृतीयक्षणे नाशो जातस्तदा तादृशक्षणिकविशेषगुणवत्वं पृथिव्यादावायायातमिति तत्रातिव्याप्तिमाशङ्कय समाधत्ते "नच" इत्यारभ्य “तदर्थत्वात्" इत्यन्तेन ग्रन्थेन । “चतुःक्षणवृत्ति"इति । अस्यायमर्थः-चतुःक्षणवृत्तीनि यानि जन्यानि घटादीनि रूपरसादीनि च, तेषु अवृत्तिः (न वर्तमाना) या जातिः "शब्दत्वम्" "ज्ञानत्वम्" वा इत्याकारा जाति:, तादृशजातिमान् यो विशेषगुणः शब्दो ज्ञानं वा, तद्वान् यथाक्रमं आकाशः . श्रात्मा चेत्येवंविवक्षायां न पृथिव्यादिष्वतिव्याप्तिगन्धोऽपि । चतुःक्षणवृत्तित्वञ्चाधिककालोपलक्षणं नतु चतुःक्षणमात्रवृत्तित्वमेव ग्राह्यम् , तेन पञ्चक्षणवृत्तिघटादिपदार्थेष्वपि तादृशजातेरग्रह एवेति कदापि पृथिव्यादिषु नातिव्याप्तिसम्भावना।
चतु:क्षणवृत्तिजन्येत्यादेः पदकृत्यं दर्शयितुम् "अपेक्षावुद्धिः” इत्याद्यग्रिम ग्रन्थमवतारयति । “अयमेक अयमेक इमौ द्वौ” इत्याकारा द्वित्वविषयिणी बुद्धिः . "अपेक्षाबुद्धिः" । एतामन्तरा अन्यत् किमपि जन्यं ज्ञानं न त्रिक्षणपर्यन्तस्थायि भवति । चतुर्थक्षणे अपेक्षाबुद्धेर्नाशो जायते ।
. रूपत्वादिका जातिस्तु चतुःक्षणोपलक्षिताधिककालपर्यन्तस्थायिष्वपि रूपादिषु वर्तत इति "चतु:क्षणवृत्ति पदेन तद्वारणम्बोध्यम् ।' पृथिव्यादावतिव्याप्तिवारण. मित्यर्थः । तद्व्युदास =रूपत्वजातिव्युदास: । तथाच-रूपत्वस्य चतु:क्षणवृत्ति जन्यावृत्तित्वाभावात् रूपत्वजातिमद्विशेषगुणवति घटादौ यातिव्याप्तिः सा निरस्तेति भावः ।
___“जन्य"पदन्तु ईश्वरज्ञानसङ्ग्रहार्थम् । ईश्वरज्ञानमपि चतुःक्षणोपलक्षिताधिकालवर्ति नित्यत्वात् । यदि “जन्य पदं न निवेश्येत तदा ईश्वरेऽव्याप्तिः स्यात् ।