________________
आकाशात्मनां साधर्म्यम् ।
www
अप्यधिकरणे वृक्षात्मके शाखायां कपिसंयोगो वर्त्तते, अथच मूलदेशे तस्यैव कपिसंयोगस्यात्यन्ताभावोऽपि विद्यत इति कपिसंयोगोऽव्याप्यवृत्तिरिति भणितुं शक्यते । एवमेव यदाकाशे घण्टादेशे शब्दो वर्तते, तदा अन्यप्रदेशे तस्मिन्नेव शब्दाधिकरणे अाकाशे शब्दात्यन्ताभावोऽपि विद्यत इति भवति विशेषगुणः शब्दोऽव्याप्यवृत्तिः, आकाशीयसकलदेशेऽभावात् ।
अक्षरार्थस्तु-किञ्चिदवच्छेदेन घण्टाद्यवच्छेदेन । तदा तस्मिन् काले । अन्यावच्छेदेन घटाद्यवच्छेदेन । तदभावस्याऽपि-शब्दाऽभावस्याऽपि सत्त्वात् विद्यमानत्वात् इति । . (मुक्का०) क्षणिकत्वञ्च तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वम् । योग्यविभुविशेषगुणानां स्वोत्तरवर्तिगुणनाश्यत्वात्प्रथमशब्दस्य द्वितीयशब्देन नाशः । एवं ज्ञानादीनामपि, ज्ञानादिकं यदात्मनि विभौ शरीराद्यवच्छेदेनोत्पद्यते तदा घटाद्यवच्छेदेन तदभावोऽस्त्येव । एवं ज्ञानादिकमपि क्षणद्वयावस्थायि । इत्थश्चाव्याप्यवृत्तिविशेषगुणवत्त्वं क्षणिकविशेषगुणवत्त्वञ्चार्थः । पृथिव्यादौ रूपादिविशेषगुणोऽस्तीत्यतोऽव्याप्यवृत्तीत्युक्तम् । पृथिव्यादावव्याप्यवृत्तिः संयोगादिरस्तीत्यतो विशेषगुणेत्युक्तम् ।
(प्रभा०) बौद्धमते सर्वे भावा द्वितीयक्षणे नश्यन्तीति क्षणिका उच्यन्त इति तेषां मतानेदं दर्शयितुं स्वमते "क्षणिकत्वम्" लक्षयति-"तृतीयक्षणं" इति । स्वोत्पत्तितृतीयक्षणे वृत्तिर्यस्य, एवंविधो यो ध्वंसः नाशः (साद्यनन्तोऽभाव:) तस्य प्रतियोगित्वमेव क्षणिकत्वम् । अर्थात् “योग्यविभुविशेषगुणा: प्रथमक्षणे उत्पद्यन्ते, द्वितीयक्षणे तिष्ठन्ति, तृतीयक्षणे नश्यन्ति" इति नियमः । तेन यस्तेषां तृतीयक्षणे विनाशस्वभावः तदेव क्षणिकत्वं ज्ञेयम् । एतद्दर्शयति-"योग्यविभु"-इति । अक्षरार्थस्तु-योग्या:=प्रत्यक्षयोग्या ये विभूनाम् (नाम) अाकाशात्मनां विशेषगुणा: शब्दाद्यास्तेषाम्-स्वस्य उत्तरवर्तिनो ये गुणा: शब्दाद्यास्त श्यत्वादिति ।
___ योग्यपदकथनेन धर्माधर्मभावनाख्यसंस्काराश्चायोग्या इति तेषां व्युदासः । योग्यत्वञ्च प्रत्यक्षविषयतावच्छेदको धर्मविशेषः । ... ज्ञानस्यापि शब्दवत् अव्याप्यवृत्तित्वं क्षणिकत्वञ्च स्पष्टीकरोति-"एवम्"इत्यादिना । "ज्ञानादिकम्" इति । आदिना इच्छादेः परिग्रहः । यदा प्रात्मनि= जीवात्मनि विभौ-सर्वमूर्तद्रव्यसंयुक्ने शरीराद्यवच्छेदेन शरीरप्रदेशेन उत्पद्यते-जायते तदा-तस्मिन् काले घटायवच्छेदेन घटादिप्रदेशेन तदभावः-ज्ञानादेरभावः अस्त्येव= वर्तत एवेति पदार्थः । अथैकस्मिन्वृक्षे अवच्छेदभेदेन संयोगतदभावौ भवत इति संयोगोऽध्याप्यवृत्तिरुच्यते ज्ञानादिरपि तथैव । साधर्म्य निष्कर्षयति-इत्थश्चेति । . उक्तसाधर्म्यस्य पदकृत्यं दर्शयति-"पृथिव्यादौ” इति । यद्यपि रूपादिः