________________
७६
- सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
द्रव्यानारम्भके चरमावयविनि घटादावित्यर्थः । “द्रव्यसमवायिकारणेति"-- द्रव्यस्य कार्यद्रव्यस्य घटादेः यत्सवायिकारणं कपालादिः तवृत्तिा द्रव्यत्वस्य साक्षाव्यप्या जातिः पृथिवीत्वादिरूपा तादृशजातिमत्त्वं विवक्षितम् , तच घटादावपि वर्तत एवेति नाव्याप्तिगन्धोपीत्यर्थः । (का०) अथाकाशशरीरिणाम् ।
अव्याप्यवृत्तिः क्षणिको विशेषगुण इष्यते ॥२७॥ (मुक्का०) आकाशशरीरिणामिति । आकाशात्मनामव्याप्यवृत्तिक्षणिकविशेषगुणवत्त्वं साधर्म्यमित्यर्थः। आकाशस्य * विशेषगुणः शब्दः, स चाव्याप्यवृत्तिः। यदा किश्चिदवच्छेदेन शब्द उत्पद्यते तदान्यावच्छेदेन तदभावस्यापि सत्त्वात् ।
- (प्रभा०) "आकाशशरीरिणाम्" इति । अस्यार्थ दर्शयति-"आकाशात्मनाम्" इति । अर्थात् कारिकास्थं "शरीरि"पदमात्मसामान्यार्थकम्बोध्यम् । "श्रव्याप्यवृत्तिः"--इत्यादेरयमर्थः--अन्याप्य वर्तत इति अन्याप्यवृत्तिः, क्षणे भवः क्षणिकः । विशेषगुणो बुद्धयादिः । एतच्च
बुद्धयादिषट्कं स्पर्शन्ताः स्नेहः सांसिद्धिको द्रवः ।
अदृष्टभावनाशब्दा श्रमी वैशेषिका गुणाः ॥ ____ इति १० कारिकायां वक्ष्यते । तथाच-"अव्याप्यवृत्तिविशेषगुणवत्त्वं क्षणिकविशेषगुणवत्त्वञ्च आकाशात्मनां साधर्म्यम्" इति विविक्तार्थः । एतदेव स्पष्टीकरोति"आकाशस्य"-इत्यादिना।
+ स्वात्यन्ताभावसमानाधिकरणत्वम् अव्यावृत्तित्वम् । अर्थात् स्वस्य अत्यन्ताभावस्य स्वप्रतियोगिकात्यन्ताभावस्य यदधिकरणम्, तस्मिन्नेव स्वात्यन्ताभावाधिकरणे वर्तमानत्वं यत् तदव्याप्यवृत्तित्वम् । स्वाधिकरणवृत्त्यभावप्रतियोगित्वमिति फलितम् ।
अयमत्राशय:--"अग्रे वृक्षः कपिसंयोगवान् न मूले" इतिप्रतीत्या एकस्मि
ॐ भावनान्यो यो वायुवृत्तिस्पर्शवृत्तिधर्मसमवायी तदन्यत्वे सति गुरुत्वनैमित्तिकद्रवत्वान्य- "गुणत्वं विशेषगुणलक्षणम् ।
. * स्वस्यात्यन्ताभावेन सहकाधिकरणे वर्तमानत्वम् । स्वप्रतियोगित्वस्वसमानाधिकरण्यैतदुभयसम्बन्धेनाभाववत्त्वमिति निष्कर्षः । स्वशब्देन कपिसंयोगाभावो गृह्यते, स्वस्य प्रतियोगी कपिसंयोगस्तत्त्वं कपिसंयोगे वर्त्तते, तथा-स्वसामानाधिकरण्यमपि, एतादृशोभयसम्बन्धेन कपिसंयोगाभाववत्त्वं कपिसंयोगे वर्तत इति कपिसंयोगोऽव्याप्यवृत्तिर्भवति । एवम्-कपिसंयोगाभावेsज्यव्याप्यवृत्तित्वं स्वयमूह्यम् ।