________________
भूतत्वस्य सिद्धान्तलक्षणं, पृथिव्यादीनां स्पर्शवत्वादिसाधर्म्यञ्च ।
७५
विषयिता तद्विषयत्वात्-तनिरूप्यत्वात् , तद्वति-तादृशालौकिकसन्निकर्षजन्यघटज्ञानविषयकज्ञानवति अात्मनि प्रमातरि (समवायेन ज्ञानाधिकरणे ) नातिप्रसङ्गः= नातिव्याप्तिः । मञ्जूषाकारस्तु-"उपनीतः ज्ञानलक्षणाश्रयः तन्निष्ठं भानमुपनीतभानम् । भानशब्दश्च विषयतापरः । “अयं घट” इति ज्ञाने घटो भाति घटो भासते इत्यादी भातिभासतिभ्यां विषयताया एव प्रत्यायनात्" इति व्याचख्यौ। .
परमाणुरूपादेरप्रत्यक्षत्वात् परमाणौ भूतत्वलक्षणाऽव्याप्तिमाशङ्कय निरस्यति"नच"- इत्यादिना । प्रत्यक्षाऽविषयरूपादिमति-प्रत्यक्षस्य अविषयो यो रूपादि. विशेषगुणवान् परमाण्वादिः तत्रेत्यर्थः । अव्याप्तिः लक्ष्यैकदेशाऽवृत्तित्वरूपो लक्षणदोषः । तस्यापि-परमाण्वादेरपि । “स्वरूपयोग्यत्वात्" इति । अयमाशयःयद्यप्यतीन्द्रियपरमाणवादीनां रूपादिकं न प्रत्यक्षन्तथापि प्रत्यक्षस्वरूपयोग्यता तत्र वर्त्तते, कथमन्यथा सरेण्वादौ रूपादेः प्रत्यक्षं सम्भवति । यथा-चारण्यस्थदण्डो यद्यपि न प्रकृतघटकारणं दूरे पतितत्वात् , तथापि तत्र घटोत्पादनयोग्यता वर्त्तते । एवमत्रापि प्रत्यक्षस्वरूपयोग्यतावत्त्वात्परमाण्वादावपि भूतत्वलक्षणं वर्तत एवेति न दोषः।
प्रत्यक्षस्वरूपयोग्यतायां वर्तमानायां कुतो न परमाण्वादेः प्रत्यक्षमिति शङ्कायां कारणमाह--"महत्त्व"-- इति । महत्त्वलक्षणं यत् कारणान्तरं तस्य असन्निधानात् अभावान प्रत्यक्षत्वमित्यर्थः । नहि रूपवत्त्वमेव प्रत्यक्षताप्रयोजकम् , अपितु महत्त्वमपि प्रत्यक्षसामग्रीकुक्षिप्रविष्टम् , तदभावादेव परमाण्वादेर्न प्रत्यक्षमिति भावः ।
___ एवं कृतेऽपि चक्षुरिन्द्रियगतरूपादेरनुभूतस्य न प्रत्यक्षस्वरूपयोग्यतेति तत्र भूतत्वलक्षणाव्याप्तिरेवेति मत्वा कल्पान्तरमाह--'अथवा"--इति । अात्मावृत्तीतिअात्मनि न वृत्तिर्येषां तादृशा ये विशेषगुणा रूपाद्याः, तद्वत्त्वं भूतत्वमिति भूतलक्षणम् । तथाच पूर्वलक्षणसर्वक्लेशनिवृत्तिरिति भावः।
(का०) चत्वारि स्पर्शवन्ति हि ॥२६॥ (मुक्ता०) चत्वारीति । पृथिव्यप्तेजोवायूनां स्पर्शवत्वम् ॥२६॥ (प्रभा०) "चत्वारि"-इति । स्पष्टम् ॥ २६ ॥ (का०) द्रव्यारम्भश्वश्चतुषु स्याद्
. (मुक्ता०) पृथिव्यप्तेजोवायुषु चतुर्यु द्रव्यारम्भकत्वम् । नच द्रव्यानारम्भके घटादावव्याप्तिः, द्रव्यलमवायिकारणवृत्तिद्रव्यत्वव्याप्यजातिमत्वस्य विवक्षितत्वात् । ... (प्रभा०) द्रव्यारम्भकत्वं नाम द्रव्यसमवायिकारणत्वमित्यर्थः । घटादावव्याप्तिमाशङ्कय जातिघटितलक्षणेन परिहारं मन्वानः "नच"--इत्यादि प्रथ्नाति ।