________________
७४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
भूतलक्षणे "ग्राह्य"पदं दत्तम् , तेन यदि ज्ञानविषयमानं विवक्षितं तदात्मनि अतिव्याप्तिः । कथमिति चेत् ? शृणु-'अयं घटः” इतिज्ञानोत्तरं भवति हि "मया घटो ज्ञात" इत्याकारकं ज्ञानमपि । आद्यं व्यवसायज्ञानं द्वितीयमनुव्यवसायज्ञानमित्युच्यते । तत्र यदाद्यम् --"अयं घटः' इत्याकारकं व्यवसायज्ञानं तद् द्वितीयस्मिन् अनुव्यवसायज्ञाने="ज्ञातो घट" इत्याकारके प्रकारीभूतम्-विशेषणभावं प्राप्तम्भवति, आद्यस्य द्वितीयेन विषयीक्रियमाणत्वात् , द्वितीयस्य च पायेन व्यावय॑त्वात्, श्राद्यस्य च व्यावर्तकत्वात् , व्यावर्त्तकञ्च विशेषणमुच्यते । परन्तु यदायम् “अयं घट" इत्याकारकं, तल्लौकिकेन संयोगसग्निकर्षेण चतुरिन्द्रियजन्यमपि "चतुःसंयुक्नमनःसंयुक्रात्मसमवेतज्ञानविषयत्वेन" अलौकिकेन ज्ञानलक्षणाख्येन सम्बन्धेन घटांशे प्रत्यक्षरूपतया भासते । अर्थात् घटविषयकं ज्ञानमपि चतुर्ग्राह्यतया भासते। तादृशज्ञानात्मकविशेषगुणवांश्चात्माऽपि "भूत"पदवाच्यः स्यात् , यतो दर्शितरीत्याऽलौकिकेन सम्बन्धेनापि घटज्ञानं बहिरिन्द्रयजन्यमेव तद्वांश्चात्मा विशेषगुणवान् शक्यतेऽभिधातुमिति स्यादेव भूतलक्षणस्यात्मन्यतिव्याप्तिः । अस्याः परिहाराय लक्षणान्त:पाति"ग्राह्य"पदस्य विवक्षितमर्थमाह- "ग्राह्यत्वम्' – इत्यादिना । उपनतिभानविषयत्वात्= ज्ञानलक्षणासन्निकर्षविषयत्वादित्यर्थः । “लौकिकप्रत्यक्ष"--इति
लौकिकं यत्प्रत्यक्षं वक्ष्यमाणचाक्षुषादिभेदभिन्नं ज्ञानलक्षणाद्यलौकिकप्रत्यक्षतोऽप्यतिरिक्तं तत्स्वरूपयोग्यत्वं नाम तद्विषयत्वमेव ग्राह्यत्वम्बोध्यम् । अर्थात् बहिरिन्द्रयजन्यमपि यदि लौकिकेन संयोगसंयुक्तसमवायादिसन्निकर्षण जन्यम्भवति तदेव (तदैव) ग्राह्यत्वपदेन विवक्षितं (विवच्यते) नत्वलौकिकसन्निकर्षजन्यमपीति भावः ।
अक्षराणि त्वेवं योजयितव्यानि-"ज्ञातो घटः" इत्याकारकज्ञानस्यापि +उपनीतभानविषयत्वात् उपनीतस-ज्ञानलक्षणासन्निकर्षेण ज्ञातस्य यद्भानं
* घटसंयुक्तं यच्चक्षुः, तत्संयुक्तम्मनः, तादृशघटसंयुक्तचक्षुःसंयुक्तमनःसंयुक्तो य आत्मा, तस्मिन्नात्मनि समवेतं समवायसम्बन्धेन वर्तमानं यज्ञानं 'ज्ञातो घट" इत्याकारकं घटज्ञानविषयकमनुव्यवसायात्मकं ज्ञानं तादृशस्य ज्ञानस्य विषयता घटज्ञानेऽपि वर्तते । कुतः ? स्वसंयुक्तमनःसंयुक्तात्मसमवेतज्ञानविषयत्वसम्बन्धेन बहिरिन्द्रयग्राह्यत्वं ज्ञानं विवक्षितम् । अर्थात् स्वचक्षुः तत्संयुक्तं मनः, तत्संयुक्त आत्मा, तत्समवेतं "ज्ञातो घट'' इति ज्ञाने तद्विषयत्वम् "अयं घट" इति ज्ञाने, एवं बहिरिन्द्रियग्राह्यविशेषगुणज्ञानवत्यात्मनि भूतत्वप्रसक्तिः, अतस्तद्वारणाय लौकिकेति । अयमलौकिको ज्ञानलक्षणसन्निकर्षोऽये मूल एव निरूपितः, तद्व्याख्यायामधिकं स्फुटीकरिष्यामः ।
+ उपनीयते उपस्थाप्यते ज्ञानविषयतामापद्यते ज्ञानमनेनेति उपनीतम्-अलौकिको ज्ञानलक्षणासन्निकर्षः ( सम्बन्धः) । इदञ्चोपनीतभानम्प्रत्यक्ष एव तिष्ठति नानुभित्यादावित्यपि न विस्मर्त्तव्यम् ।