________________
कालादीनां साधर्म्यम् ।
७३
"अपकृष्ट" इति । परिच्छिन्नपरिमाणवत्वमित्यर्थः । तेन परमारवादी नाग्याप्तिः । नव्यास्तु-क्रियाजनकतावच्छेदको जातिविशेषो मूतत्वमित्याहुः । इयत्तापरिच्छिन्नपरिमाणयोगो मूतत्वमिति तु प्राञ्चः । गगनादिषु मूर्त्तव्यवहारं वारयितुमवधारयति-तच्चैषामेव"-इति । क्षित्यादिपञ्चानामेवेत्यर्थः। यत्र घटादौ क्रिया नोत्पन्ना, कन्दुकादौ वा वेगो नोत्पन्नः, तत्रातिव्याप्तिवारणाय पूर्वोक्त जातिघटितसाधर्म्यलक्षणप्रकारमतिदिशति-"पूर्ववद्" इति । परत्वादिवदित्यर्यः । विवरणप्रकारः पूर्ववहनीयः । ग्रन्थगौरवभयान प्रतानित: ॥ २५॥ - (का०) कालखात्मदिशा सर्वगतत्वम्परमं महत् ।
(मुक्का०) कालाकाशात्मदिशां सर्वगतत्वं * सर्वमूर्तसंयोगित्वं परममहत्वञ्च । परममहत्वत्वञ्जातिविशेषः, अपकर्षानाश्रयपरिमाणत्वं वा।
(प्रभा०) "काल" इति । कालादीनां : सर्वगतत्वम्परममहत्त्वञ्च साधर्म्यम् । स्पष्टमन्यत् ।
(का०) क्षित्यादि पञ्च भूतानि--
(मुक्ता०) तित्यादीति । पृथिव्यप्तेजोवाय्वाकाशानाम्भूतत्वम् । तञ्च बहिरिन्द्रयग्राह्यविशेषगुणवत्त्वम् । अत्र ग्राह्यचं लौकिकप्रत्यक्षखरूप. योग्यत्वम्बोध्यम् । तेन "ज्ञातो घट" इत्यादिप्रत्यक्ष ज्ञानस्याप्युपनीतभानविषयत्वात्तद्वति आत्मनि नातिव्याप्तिः । नवा प्रत्यक्षाविषयरूपादिमति परमारवादावव्याप्तिः, तस्यापि स्वरूपयोग्यत्वात् । महत्त्वलक्षण कारणान्तरासनिधानाच न प्रत्यक्षम् । अथवा-आत्मवृत्तिविशेष-T गुणवच्चं तत्त्वम् ।
__ (प्रभा०) "क्षित्यादीति' इति । पृथिव्यादिपञ्चानाम्भूतत्वं साधर्म्यमित्यर्थः । भूतत्त्वं लक्षयति--तच्च" इति । “बहिः"-इति । बहिरिन्द्रियाणि= घ्राणरसनचतुस्त्वक्श्रोत्राणि पृथिव्यादिपञ्चभूतकार्याणि, तेषां ग्राह्यो विषयो यो विशेषगुणः .यथाक्रमं गन्धादिरेव, तादृशविशेषगुणवत्त्वमेव भूतत्वम् । पृथिव्याः गन्धः, अपां रस:, तेजसो रूपम्, वायोः स्पर्शः, आकाशस्य शब्दो विशेषगुण इत्यने मूल एव स्फुटीभविष्यति । केचित्सामान्यगुणा: केचित् विशेषगुणा इत्यप्यग्र एव विशदम् । एतच्च-"घ्राणरसनचक्षुस्त्वक्श्रोत्राणन्द्रियाणि भूतेभ्यः" । 'पृथिव्यप्तेजोवायुराकाशमिति भूतानि" (न्या० सू० १।१।१२, १३) । इत्यार्षवचनमूलकम् ।
* यावन्मूर्तपदार्थेषु संयोगसम्बन्धेन सम्बद्धत्वम् ।
+ अविभुवृत्तिपरिमाणवत्त्वमित्यर्थः तेन परमाणौ नातिव्याप्ति: । केचित्तु-क्रियाजनकताऽवच्छेदकं मूतत्वं जातिरित्याहुः । * कालस्य सर्वगतत्वम् अतीतादिव्यवहारस्य सार्वत्रिकत्वात्।
......