________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[ प्रत्यक्षखण्डे
(का० ) क्षित्यादीनां नवानान्तु द्रव्यत्वगुणयोगिता || २४|| (का० ) इदानीं द्रव्यस्यैव विशिष्य साधर्म्यं वक्तुमारभते" क्षित्यादीनाम् " - इति । स्पष्टम् ॥ २४ ॥
( प्रभा० ) " तु" शब्दः द्रव्यभिन्नसाधर्म्यप्रकरणभेदकः । चित्यादीनां सर्वेषां द्रव्यत्ववत्त्वं गुणवत्त्वञ्च साधर्म्यमित्यर्थः ॥ २४ ॥
७२
(का० ) क्षितिर्जलं तथा तेजः पवनो मन एव च ।
परापरत्वमूर्तत्वक्रियावेगाश्रयाश्रमी ||२५||
( मुक्रा० ) पृथिव्यप्तेजोवायुमनसाम्परत्वापरत्यवच्वं मूर्तत्वं क्रियावध्वं वेगवश्वञ्च साधर्म्यम् । नच यत्र घटादौ परत्वमपरत्वं वा नोत्पन्नं तत्राव्याप्तिरिति वाच्यम्, परत्वादिसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्वस्य विवक्षितत्वात् । मूर्तत्वमपकृष्टपरिमाणवत्वम्, तच्च तेषामेव, गगनादिपरिमाणस्य कुतोऽप्यपकृष्टत्वाभावात् । पूर्ववत् कर्मवचम् कर्मसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वम्, वेगवचं वेगवद्वृत्ति द्रव्यत्वव्याप्यजातिमच्चञ्च बोध्यम् ॥ २४, २५ ॥
( प्रभा० ) पृथिव्यादिपञ्चानां साधर्म्यमाह – “पृथिवी " - इति । निरुक्तस्य साधर्म्यस्य श्रव्याप्तिमाशङ्कय निरस्यति – “नच" इत्यारभ्य " विवक्षितत्वात्" इत्यन्तेन ग्रन्थेन । श्रयमर्थः – द्विविधे परत्वापरत्वे दिक्कृते कालकृते चेति गुणप्रस्तावे स्फुटी - भविष्यति । तत्र दिक्कृतयोस्तयोः “ इदमस्मात् सन्निकृष्टम्" इत्यपेचाबुद्धिर्हेतुः । श्रयमस्मात्कनिष्ठः=श्रल्पतरकालसम्बद्ध:, श्रयमस्माज्ज्येष्ठः = बहुतरकालसम्बद्धः इत्यपेत्ताबुद्धिः कालकृतयोस्तयोर्हेतुः । परं यत्र = उत्पन्नविनष्टे घटादिपदार्थे इयम्बुद्धिर्नोत्पन्ना (यदेयम्बुद्धिः घटादिपदार्थ न विषयीकरोति) तदा तत्र परत्वापरत्वयोरसत्त्वादव्याप्तिरेव साधर्म्यलक्षणस्येतिशङ्काकर्त्तुराशयः ।
1
सिद्धान्ती परिहरति - " परत्वादि" - इति । परत्वादिसमानाधिकरणा-यत्र परत्वापरत्वे यदाकदाचिद्भवतः तस्मिन्नेवाधिकरणे वर्त्तमाना या द्रव्यत्वस्य साताजातिः पृथिवीत्वं तेजस्त्वमित्यादिः तादृशजातिमत्त्वं विवक्षितम् । " परत्वापरत्ववत्त्व" पदेन इति नाव्याप्तिर्घटादौ । यतः तादृशापेक्षा बुद्ध्या श्रविषयीक्रियमाणेष्वपि घटादौ पृथिवीत्वादिजातिर्वर्त्तत एव ।
श्रात्मन्यतिव्याप्तिवारणाय समानाधिकरणान्तम् । तत्रैव सत्तामादाय अतिव्याप्तिवारणाय " द्रव्यत्वव्याप्य” – इति । द्रव्यत्वव्याप्यत्वं नाम द्रव्यत्वापेक्षया न्यूनदेशवृत्तित्वम्, अपरजातित्वमित्यर्थः । मूर्त्तत्वं निर्वक्ति" मूर्त्तत्वम् " - इति ।