________________
नित्यद्रव्यभिन्नानामाश्रितत्वं साधर्म्यम् ।
७१
___असमवायिकारणवृत्तिसत्ताभिन्नजातिमत्त्वम् । अस्य पदकृत्यमित्थं ज्ञेयम्यदि सत्ताभिन्नजातिमत्त्वमित्येवोच्यते तदा द्रव्येऽतिव्याप्तिः द्रव्यमपि सत्ताभिन्नद्रव्यत्वजातिमत् तत्रातिव्याप्तिवारणाय "असवायिकारणवृत्ती"त्युक्तम् । द्रव्यत्वं जाति समवायिकारणवृत्तिः, किन्तु समवायिकारणवृत्तिः । एवं तत्रैव सत्ताजातिमादायातिव्याप्तिनिवृत्तये सत्ताभिन्नेत्युक्तम् । द्रव्यगुणान्यतरत्वमादाय तत्रैवातिव्याप्तिपरासनाय "जाती"त्युक्तम् । अत्र-वृत्तित्वं जातिमत्त्वञ्च समवायेन विवक्षितं तेन गुणादौ द्रव्यत्वस्य कालिकेन वृत्तित्वात् द्रव्यत्तस्य कालिकेन गुणत्वादिमत्त्वात् द्रव्ये नातिन्याप्तिः ॥ २३ ॥
(का०) अन्यत्र नित्यद्रव्येभ्य आश्रितत्वमिहोच्यते ।
(मुक्ता०) नित्यगव्याणि परमाण्वाकाशादीनि विहायाश्रितत्वं साधर्म्यमित्यर्थः । आश्रितत्वन्तु समवायादिसम्बन्धेन वृत्तिमत्वम् । विशेषणतया नित्यानामपि कालादौ वृत्तः ।
_ (प्रभा०) परममूले--"इह"--इति । इह-सप्तपदार्थमध्ये । “नित्यद्रव्येभ्य"--इति । पृथिव्यप्तेजोवायूनाम्परमाणवः श्राकाशादिपञ्चकञ्चेति नव नित्यद्रव्याणि । तेभ्योऽन्यन्न तानि विहाय इत्यर्थः । “प्राश्रितत्वम्" इति । अनित्यद्रव्याणां गुणादीनाञ्च आश्रितत्वं साधर्म्यम् । उक्तञ्च प्रशस्ते-"द्रव्याश्रितत्वञ्चान्यत्र नित्यद्रव्येभ्यः" इति ।
- ननु-कालिकसम्बन्धेन नित्यद्रव्याण्यपि वृत्तिमन्ति, तत्कथं तानि विहायेत्युक्रमितीमां शङ्काम्पराणुदनेव पाह-"प्राश्रितत्वन्तु"-इति । सर्वाधारतानियामककालिकविशेषणतादिसम्बन्धातिरिक्तसम्बन्धेन वृत्तिमत्त्वं नित्यद्रव्येतरेषां साधर्म्यमित्यर्थः।
अयम्भावः-कालो देशश्च (दिक्च) एतौ सर्वेषां विशेषणतासम्बन्धेनाधारभूतौ । एतद्द्वारकः सम्बन्धः सर्वस्य सर्वत्र वर्तते । कालद्वारको यः सम्बन्धः स "स्वाधिकरणकालवृत्तित्वम्" इति, दिग्द्वारको य: सम्बन्ध: स "स्वाधिकरणदेशवृत्तित्वम्" इति च यथाक्रममुच्यते । तेन नित्यानि द्रव्याणि यद्यपि उक्नोभयसम्बन्धेन ® वृत्तिमन्ति प्रतीयन्ते, परं वस्तुतस्तथा न सन्ति । यतः समवायः संयोगश्चेति द्वावेव सम्बन्धौ मुख्यतया | वृत्तिनियामकौ । तेनात्र "आश्रितत्व"पदेन समवायसंयोगान्यतरसम्बन्धेन वृत्तिमत्त्वविवक्षायां न कालिकदैशिकसम्बन्धेन वृत्तिमत्सु नित्येष्वतिव्याप्तिरिति सर्व हृदि कृत्वा आह-"प्राश्रितत्वम्" इत्यारभ्य "वृत्तेः" इत्यन्तम् ।
भाधेयताधर्मवन्ति । * वृत्तः आधेयताया । नियामको अवच्छेदको गमकाविति तावत् ।