________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
___ कारणत्वप्रसङ्गे इदमपरमप्यनुसन्धेयम् - सामान्यतः कारणं द्विविधं ॐ साधारणमसाधारणञ्चेति । कार्यमाञम्प्रति यत्कारणं तत्साधारणम् । यथा-दिक्कालादृष्टादि । कार्यविशेषम्प्रति यत्कारणं तदसाधारणम् । यथा-पटम्प्रति तन्त्वादि । यथा वा--घटम्प्रति कपालादि । अन्योऽपि विशेषः-यदेका कारणता समुदायविश्रान्ता । यथा-घटम्प्रति दण्डादिनिष्ठा कारणता । इयमेव "दण्डचक्रादिन्यायेन कारणता" इत्युच्यते, दण्डादिष्वन्यतमाभावे घटानुत्पत्तेः । एका च प्रत्येकविश्रान्ता । यथा-वह्निम्प्रति तृणारणिमणिसंयोगनिष्ठा कारणता । इयमेव "तृणारणिमणिन्यायेन कारणता" अर्थात् तृणादिष्वन्यतमेनापि वह्निरुत्पद्यते । एवञ्च-तार्णाऽतार्णवती वैजात्यमित्यपि केचित् ॥ २१, २२ ॥
(का०) समवायिकारणत्वं द्रव्यस्यैवेति विज्ञम् ।
(प्रभा०) साधर्म्यप्रसङ्गात्पुनस्तदेवाह परममूले--"समवायिकारणत्वम्" इति । मुक्तावल्यां “समवायीति स्पष्टम्" इत्युक्तम् । एवशब्दोऽवधारणार्थकः, तेन समवायिकारणं द्रव्यमानस्यैव साधर्म्यमित्युक्तम्भवति ।
(का०) गुणकर्ममात्रवृत्ति ज्ञेयमथाप्यसमवायिहेतुत्वम् ।।२३।।
(मुक्का०) गुणकर्मेति । असमवायिकारणत्वं गुणकर्मभिन्नानां वैधर्म्य नतु गुणकर्मणोः साधर्म्यमित्यत्र तात्पर्यम् । अथवा असमवायिकारणवृत्तिसत्ताभिन्नजातिमत्त्वं तदर्थः । तेन ज्ञानादीनामसमवायि- . कारणत्वविरहेऽपि न क्षतिः ॥ २३ ॥
(प्रभा०) मूले असमवायिकारणं गुणकर्मणोः साधर्म्यमित्युक्तम् , परं तन्न युक्तम् , अात्मविशेषगुणा न कस्यापि असमवायिकारणं तस्माज्ज्ञानादिविशेषगुणेष्वव्याप्ति: स्यादिति समवायिकारणलक्षणप्रसङ्गे प्रागुनम् । अतो मूलस्याथं वैधhपरतया योजयति-"असमवायिकारणत्वम्"--इति ।
क्रमत्यागभीतिं मत्वा साधर्म्यविवक्षयापि यथा नाव्याप्तिदोष: तथा जातिघटितं साधर्म्यमाह-"अथवा"-इति । अयमत्रार्थ:-असमवायिकारणे गुणे कर्मणि वा वृत्तिर्यस्याः सा सत्ताभिन्ना जाति: सत्ताया व्याप्या अपरा जातिः गुणत्वकर्मत्वरूपा, तादृशजातिमत्त्वं गुणकर्मणोः साधयं विवक्षितम् । एवञ्च-गुणत्वं जातिस्तु असमवायिकारणताशून्येष्वपि ज्ञानादिषु गुणेषु वर्तते इति नान्याप्तिदोषगन्धोऽपि इत्यभिप्रायेण व्याचष्टे-"तेन"--इत्यादि ।
* अत्रेदं ज्ञेयम्-अष्टौ साधारणकारणानि--ईश्वरः, तज्ज्ञानेच्छाकृतयः, प्रागभावः, कालः, दिक् , अदृष्टम् , (धर्माऽधौं) च इति (वाक्यवृत्तौ) । केचित्तु–प्रतिबन्धकसामान्यभावोऽपि नवमं साधारणकारबमङ्गीचकुरिति न्यायकोशे ।
प्रासङ्गिक समाप्य प्रकृतमाचष्टे-“समवायिकारणत्वम्" इति । ।