________________
अन्यथासिद्धप्रपञ्चः।
महत्त्वस्य कारणत्वे तु महत्त्वत्वं कारणतावच्छेदकं लघुधर्मः । तेन कारणतावच्छेदकस्य शरीरकृतं लाघवमेव महत्त्वस्य कारणत्वे अनेकद्रव्यत्वस्य चान्यथासिद्धत्वे गमकम् (विनिगमकम्, एकीयपक्षतासाधकम् ) इतिसमस्तोत्तरग्रन्थार्थः।
नव्यास्तु-"लघुनियतपूर्ववर्त्तिन एव कार्यसम्भवे तद्भिन्नमन्यथासिद्धमित्यनुगतैकलक्षणेन एकविधमेवान्यथासिद्धमाचक्षते । इतरे प्रकाराः शिष्यबुद्धिवैशद्यार्था सन्तत्यिाहुः । तेन प्रकारभेदः प्राचामेवेष्ट इति सिद्धम् । - इदन्तु बोध्यम्-त्रिविधं लाघवम्भवति शरीरकृतम्, उपस्थितिकृतम् , सम्बन्धकृतञ्चेति । तत्र प्रत्यक्षम्प्रत्यनेकद्रव्यत्वापेक्षया महत्त्वस्य कारणतायां शरीरकृतं लाघवम् । गन्धम्प्रति रूपप्रागभावापेक्षया गन्धप्रागभावस्य कारणत्वे उपस्थितिकृतं लाघवम् । गन्धस्य प्रतियोगिन: रूपापेक्षया शीध्रमुपस्थिते: । घटम्प्रति दण्डत्वदण्डरूपाद्यपेक्षया दण्डादेः कारणत्वे सम्बन्धकृतं लाघवम् । दण्डस्य संयोगसम्बन्धः प्रथममुपस्थितः दण्डत्वादीनान्तु स्वसमवायिदण्डसंयोगपरम्परा गुरुभूतैव, विलम्बेनोपस्थितिमत्त्वादिति भावः ॥ २० ॥ (का०) एते पश्चान्यथासिद्धा दण्डत्वादिकमादिमम् ।
घटादौ दण्डरूपादि द्वितीयमपि दर्शिम् ॥२१॥ तृतीयं तु भवेद्वयोम कुलालजनकोऽपरः ।
पञ्चमो रासभादिः स्यादेतेष्वावश्यकस्त्वसौ ॥२२॥ ' (मुक्का०) रासभादिरिति । यद्यपि यत्किञ्चिद्धटव्यक्तिम्प्रति रासभस्य नियतपूर्ववर्तित्वमस्ति, तथापि घटजातीयं प्रति सिद्धकारणभावैदण्डादिभिरेव तयक्तेरपि सम्भवे रासभोऽन्यथासिद्ध इति भावः । एतेष्विति । एतेषु पञ्चखन्यथासिद्धेषु मध्ये पञ्चमोऽन्यथासिद्ध आवश्यकः, तेनैव परेषां चरितार्थत्वात् । तथाहि-दण्डादिभिरवश्यक्लुप्तनियतपूर्ववर्तिभिरेव कार्यसम्भवे दण्डत्वादिकमन्यथासिद्धम् । नचं वैपरीत्ये किं विनिगमकमिति वाच्यम्, दण्डत्वस्य कारणत्वे दण्डघटितपरम्परायाः सम्बन्धकल्पने गौरवात् । एवमन्येषामप्यनेनैव चरितार्थत्वं सम्भवतीति ॥ २१, २२॥
(प्रभा०) अन्यथासिद्धानां क्रमेण उदाहरणानि परममूले-"एते"-इति । "रासभादिः" इति । रासभो गर्दभः । श्रादिना शकटादिपरिग्रहः । यद्यपीत्यादिः सर्वो ग्रन्थः विंशतिकारिकाया मुकावनीप्रभयैव प्रकाशितार्थो वेदितन्य इति कृतं पिष्टपिष्ठ्या । तेन-पञ्चमेनान्यथासिद्धेन । परेषाम् दण्डत्वादीनाम् । चरितार्थत्वात्= उक्तरीत्या समहादित्यर्थः ।