________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
(का०) अतिरिक्तमथापि यद्भवेनियतावश्यकपूर्वभाविनः ॥२०॥
(मुक्का०) पश्चममन्यथासिद्धमाह--अतिरिक्तमिति । अवश्यक्लुप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तद्भिन्नमन्यथासिद्धमित्यर्थः । अत एव प्रत्यक्षे महत्त्वं कारणम्, अनेकद्रव्यत्वमन्यथासिद्धम् । तत्र हि महत्वमवश्यं फ्लुप्तं तेनाऽनेकद्रव्यवत्त्वमन्यथासिद्धम् । नच वैपरीत्ये किं विनिगमकमिति वाच्यम्, महत्त्वत्वजातेः कारणतावच्छेदकत्वे लाघवात् ॥२०॥ ...
(प्रभा०) पञ्चममन्यथासिद्धं दर्शयति-"अतिरिक्तमिति' इति । अस्यायमर्थः-नियतः व्यापकः, श्रावश्यकः यदन्तरेण कार्यसिद्धि व जायते । नियतश्वासावावश्यकः पूर्वभावी चेति कर्मधारयः, तस्य नियतावश्यकपूर्वभाविनः । कारिकास्थपदस्यार्थमाह-"अवश्यक्लुप्तनियतपूर्ववर्तिन"-इति । एतस्माद् अतिरिक्तं भिन्नं सर्वमपि अन्यथासिद्धमेव । नियतावश्यकपूर्वभाविभिन्नं यत्स पञ्चमोऽन्यथासिद्ध इत्यर्थः । इदमेवान्यथासिद्धस्य सामान्य लक्षणम् । अनेनैव गतार्थत्वे इतरेषाम्प्रपञ्चः शिष्यबुद्धिवैशद्यार्थ: । उदाहरणं यथा-रासभ इति । यद्यक्ति (घटं) प्रति रासभस्य पूर्वभावोऽस्ति, तत्रापि सिद्धकारणभावैर्दण्डादिभिरेव तटव्यक्तेरपि सम्भवोऽतो दैवादागतो रासभो घटोत्पत्ते: पूर्वक्षणे विद्यमानोऽपि अन्यथासिद्ध एव । यावद्धटल्यक्रिम्प्रतिदण्डादीनां कारणताया व्यापकत्वादिति भावः।
अन अन्यथासिद्धसामान्यलक्षणे यदि नियतेति पदं न दीयते तदा रासभे, आवश्यकेति नोच्येत तदा अाकाशे, पूर्वभावीति न निवेश्येत तदा स्वस्मिन्= तटादिव्यक्तौ अतिव्याप्तिः स्याद् अतस्तत्तद्वारणाय तत्तत्पदनिवेशो बोध्यः ।
एवञ्च-"अन्यथासिद्धिशून्यत्वे सति कार्यनियतपूर्ववृत्तित्वं कारणत्वम्" इति कारणसामान्यलक्षणम्फलितम् । अत्र कारणसामान्यलक्षणे अनियतरासभादिवारणाय "नियत"पदम् । कार्यवारणाय “पूर्व"-इतिपदम् ।
___ पञ्चमान्यथासिद्धेनैव सर्वेषां गतार्थतां स्पष्टयितुमाह-"श्रत एव” इति । अनेकद्रव्यत्वम् अनेकद्रव्यसमवेतत्वं अणुपरिमाणवद्र्व्यभिन्नद्रव्यत्वमिति यावत् । प्रत्यक्षे महत्त्वमवश्यं क्लुप्तम् , तेन विना प्रत्यक्षानुपपत्तेः।
शङ्कागर्भितं समाधानग्रन्थमाह-"नच"-इति । अत्र अनेकद्रव्यत्वमेव प्रत्यक्ष कारणमास्ता महत्त्वमन्यथासिद्धं स्यात् एकीयपक्षसाधिकाया: युक्तरभावादिति पूर्वपक्षः । वस्तुतस्तु-अनेकद्रव्यत्वं प्रत्यक्षम्प्रति व्यभिचारि व्यणुके तस्य सत्त्वेऽपि प्रत्यक्षाभावात् । तेन वैपरीत्ये किं विनिगमकमित्यादिग्रन्थश्चिन्त्यः।
® अनेकद्रव्यत्वञ्चेत् प्रत्यक्षे कारणं तीनेकद्रव्यत्वत्वं कारणतावच्छेदकम्भविष्यति,
* अनेकानि द्रव्याणि कारणतया यस्य तदनेकद्रव्यम् , तस्य भावः अनेकदन्यत्वम् । "अनेकद्रव्यवत्त्व"मिति तु पाठान्तरम् ।