________________
अन्यथासिद्धप्रपञ्चः।
६७
शब्दम्प्रति श्राकाशनिष्ठकारणताया अवच्छेदकनिर्णयाय शङ्कते–“ननु" इति । जनकत्वे-कारणत्वे । किमवच्छेदकमिति-निरवच्छिन्नायाः कारणताया असम्भवादित्याशयः । उत्तरयति-"*कवत्वादिकम्" इति । कः ककारो विद्यते समवायेन अस्मिन्निति "कवत्" तद्भाव: कवत्त्वम् । श्रादिना गवत्त्वादिपरिग्रहः । "नहि निरवच्छिन्ना काचित्कारणता" इतिनियमेन अाकाशीयसमवायिकारणताया "कवत्त्वम्" 'गवत्त्वम्" इत्याद्यवच्छेदकं जानीहि । कवत्त्वादीनामवच्छेदकत्वे गौरवम् । अर्थात् बहूनां वर्णानां कारणतावच्छेदकतायां शरीरकृतं गौरवम्भविष्यति विनिगमनाविरहश्चेत्य. स्वरसादाह-"विशेषपदार्थो वा"--इति । विशेषाख्यः पदार्थ एव शब्दम्पति
आकाशनिष्ठकारणताया अवच्छेदक इतरेभ्यो व्यावर्त्तक इति नोक्कदोषः ॥ १६ ॥ (का०) जनकम्प्रति पूर्ववृत्तितामपरिज्ञाय न यस्य गृह्यते ।
(मुक्का०) चतुर्थमन्यथासिद्धमाह-जनकम्प्रतीति । यत्कार्यजनकम्प्रति पूर्ववृत्तित्वं गृहीत्वैव यस्य यत्कार्यम्प्रति पूर्ववृत्तित्वं गृह्यते तस्य तत्कार्यम्प्रत्यथासिद्धत्वम् । यथा कुलालपितुर्घटम्प्रति । तस्य हि कुलालपितृत्वेन घटम्प्रति जनकत्वे एवान्यथासिद्धिः । कुलालत्वेन जनकत्वे त्विष्टापत्तिः, कुलालमात्रस्य घटम्प्रति जनकत्वात् ।
. (प्रभा०) चतुर्थमन्यथासिद्धं दर्शयति-"जनकम्प्रति" इति । यस्य कुलालपितुः यत्कार्यजनकम्प्रति पूर्ववृत्तिता-पूर्वभावम् अपरिज्ञाय अगृहीत्वा पूर्वभावो न गृह्मते अपितु गृहीत्वैव-ज्ञात्वैव पूर्वभावो गृह्यते तस्य तत्कार्यम्प्रन्यथासिद्धत्वम् । एककार्यम्प्रति गृहीतपूर्ववृत्तिर्यः कार्यान्तरम्प्रत्यपि पूर्ववर्तितया गृह्मते, तच्चतुर्थमन्यथासिद्धमिति प्रघट्टकार्थः । कालिकसम्बन्धावच्छिन्नकारणत्वं चतुर्थ तदिति तु तात्पर्यमिति तु दुर्गादत्तशास्त्रिण: । वयन्तु-स्वजन्यतानिरूपितजनकतानिरूपितजनकतावत्वं तत् । यथा-कुलालपितुर्घटकार्यजनकं कुलालम्प्रति पूर्वभावमज्ञात्वा घटम्प्रति पूर्वभावो न गृह्यते । किन्तु–कुलालम्प्रति कारणभावं ज्ञात्वैवं घटम्प्रति कारणभावो ज्ञायते, अतो घटम्प्रति कुलालपिता कुलालपितृत्वेन रूपेण अन्यथासिद्धचतुर्थः । “कुलालत्वेन" इत्यादिग्रन्थस्तु निगदेनैव + व्याख्यातः ।।
* अत्रायमभिसन्धिः-शब्दस्य समवायिकारणमाकाशम् , कारणता आकाशनिष्ठा, कारणतावच्छेदकत्वमाकाशत्वम्, श्राकाशत्वञ्च सब्दसमवायिकारणतैव । तथाच-स्वावच्छेदकं स्वमेव प्राप्तम् , तच्चानुपपन्नम् । अवच्छेद्यावच्छेदकभावस्य भेदनियतत्वादित्याह--कवत्त्वादिकमिति । शम्दसमवायिकारणता कवति, शब्दसमवायिकारणतावच्छेदकस्वं कवत्त्वम् , नतु आकाशस्वं येन शब्दसमवायिकारणतैवावच्छेदिका स्यादिति भावः ।
+ यदि घटत्वावछिन्नघटनिष्ठजन्यतानिरूपितजनकता कुलालत्वेन स्वीक्रियते तदा तु कुलालपितुरपि कुलालत्वेन जनकत्वात् कारणत्वं निराबाधमिति भावः ।
tilllilil!!!