________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
(प्रभा०) “यस्य"- इति । यस्य स्वात्मना कार्यम्प्रति पूर्वभावो न भवेत् किन्तु स्वकारणं गृहीत्वैव पूर्वभावः स्यात् सोप्यन्यथासिद्धः । “कारणसमवेतविशेषगुणत्वं” द्वितीयमन्यथासिद्धमित्यर्थः । अक्षरार्थस्तु–यस्य स्वतन्त्रान्वयव्यतिरेकशून्यस्य स्वातन्त्र्येण स्वकारणनिरपेक्षतया अन्वयव्यतिरेको स्वाधिकरणे कार्यसत्त्वमन्वयः, स्वाभावाधिकरणे कार्यासत्त्वं व्यतिरेकः तौ न स्तः न स्यातां किन्तु कारणं-स्वकारणम् प्रादाय-गृहीत्वैव तौ अन्वयव्यतिरेको गृह्यते ज्ञायते तद् द्वितीयमन्यथासिद्धम् । यथा दण्डरूपम् । दण्डरूपस्य घटं प्रति न स्वतन्त्रतया पूर्वभावः किन्तु स्वकारणस्य 8 दण्डस्य पूर्वभावं गृहीत्वैव दण्डरूपस्यापि घटम्प्रति पूर्वभावो गृह्यतेऽतो दण्डरूपं घटोत्पत्ते: पूर्वक्षणे सदपि अन्यथासिद्धमेव ।। (का०) अन्यम्प्रति पूर्वभावे ज्ञाते यत्पूर्वभावविज्ञानम् ॥१६॥
(मुक्ता०) तृतीयमाह-अन्यम्प्रतीति । अन्यम्प्रति पूर्ववृत्तित्वं गृहीत्वैव यस्य यत्कार्यम्प्रति पूर्ववृत्तित्वं गृह्यते तस्य तत्कार्यम्प्रत्यन्यथासिद्धत्वम् । यथा घटादिकं प्रत्याकाशस्य । तस्य हि घटादिकं प्रति कारणत्वमाकाशत्वेनैव स्यात् । आकाशत्वं हि शब्दसमवायिकारणत्वम् । एवञ्च तस्य शब्दं प्रति जनकत्वं गृहीत्वैव घटादिकं प्रति जनकत्वं ग्राह्यमतस्तदन्यथासिद्धम् ॥
ननु-शब्दाश्रयत्वेन तस्य कारणत्वे काऽन्यथासिद्धिरिति चेत् ? पञ्चमीति गृहाण । नन्वाकाशस्य शब्दम्प्रति जनकत्वे किमवच्छेदकमिति चेत्कवत्वादिकं विशेषपदार्थो वेति ॥१६॥
___ (प्रभा०) तृतीयमन्यथासिद्धं दर्शयति-"तृतीयमाह"-इति । अन्यम्प्रति= प्रकृतघटादिकार्यभिन्नम्प्रति अर्थात् शब्दम्प्रति पूर्ववृत्तित्वं पूर्वभावं गृहीत्वैव यस्य=
आकाशस्य यत्कार्यम्प्रति घटादिकार्यम्प्रति पूर्ववृत्तित्वं गृह्यते तस्य-आकाशस्य तत् कार्यम्प्रति घटादिकार्यम्प्रति अन्यथासिद्धत्वम् ।
अन्यकारणत्वेन गृहीतकारणताकं तृतीयमन्यथासिद्धमिति लघु फलितम् । एतदुदाहरणेन स्पष्टीकरोति-"यथा'-इति । स्पष्टमन्यत् व्याख्यातप्रायञ्च । शङ्कते-"ननु"-इति । माभूद् अाकाशं शब्दस्य समवायिकारणं किन्तु शब्दाश्रय एव तदिति कुत आकाशस्यान्यथासिद्धतेति शङ्काकर्तुराशयः । समाधत्ते“पञ्चमीति" इति । अनुपदं वक्ष्यमाणं पञ्चममन्यथांसिद्धमित्यर्थः । गृहाण= जानीहि । यदि अाकाशं शब्दसववायिकारणमिति लक्षणम्परित्यज्य शब्दाश्रय इत्येतत् स्वीक्रियते भवता तदापि तस्यान्यथासिद्धत्वमेव । अवश्यनियतपूर्वभाववत: कारणात् कार्यसम्भवे. तद्भिन्नं सर्वमप्यन्यथासिद्धमेवेतिसमाधातुराशयः । कारणताप्रसङ्गेन
* दण्डरूपस्य समवायिकारणं दण्डः ।