________________
श्रन्यथासिद्धप्रपञ्चः ।
६१
(का० ) येन सह पूर्वभावः --
-
(मुक्का० ) इदानीमन्यथासिद्धत्वमेव कियतां पदार्थानामत श्राह - येनेति । यत्कार्यम्प्रति कारणस्य पूर्ववृत्तिता येन रूपेण गृह्यते तत्कार्य - प्रति तद्रूपमन्यथासिद्धमित्यर्थः । यथा घटम्प्रति दण्डत्वमिति ।
( प्रभा० ) कारणलक्षणे अन्यथासिद्धिशून्यत्वमुक्तम्, तत्र भवति जिज्ञासा किमन्यथासिद्धत्वं नाम, कतिविधञ्च तदिति तच्छान्त्यै " इदानीम् " - इत्यादिग्रन्थमुपन्यस्यति । " यत्कार्यम् " - इति । यद्धर्मावच्छिन्नं कार्यम्प्रति यस्य = कारणत्वेनाभिमतस्य दण्डात्वादेः पूर्ववृत्तिता = पूर्वभावः येन रूपेण दण्डत्वादिना सहैव गृह्यते = ज्ञायते तत्कार्यम्प्रति घटत्वादिधर्मावच्छिन्नघटादिकार्यम्प्रति तद्रूपम् - कारणतावच्छेदकं दण्डत्वादि अन्यथासिद्धमित्यर्थः । कारणतावच्छेदकधर्मत्वं प्रथममन्यथासिद्धमिति फलितम् । यथा -- घटम्प्रति दण्डः कारणम् । कारणता दण्डनिष्ठा, तदवच्छेदको धर्मो दण्डत्वमिति तदन्यथासिद्धम् । घटम्प्रति दण्डस्य कारणता तु गृह्यते । तो दण्डत्वमन्यथासिद्धमिति भावः ।
(To) कारणमादाय वा यस्य ।
( मुक्का० ) द्वितीयमन्यथासिद्धमाह - कारणमिति । यस्य स्वातन्त्र्येणान्वयव्यतिरेकौ न स्तः किन्तु कारणमादायैवान्वयव्यतिरेकौ गृह्येते तदन्यथासिद्धम् । यथा दण्डरूपम् ॥
"
* ननु - यत्कार्यं प्रतीति यथाश्रुतं परित्यज्य किमिति प्रभायां यद्धर्मावच्छिन्न कार्यम्प्रति यस्य येन रूपेणेति व्याख्यातं दर्शनाचार्यैरिति चेच्छृणु ? यथा दण्डत्वेन दण्डो घटपूर्ववत्तीत्यत्र दण्डत्वं घटपूर्ववर्त्तित्वग्रहविशेष्यतावच्छेदकम् ; तथा तद्वयक्तिः तद्व्यक्तिविषयकप्रत्यक्ष पूर्ववर्त्तिनीति तद्व्यक्तिविषयकप्रत्यक्षत्वावच्छिन्न कार्यता निरूपित पूर्ववर्त्तित्वग्रहविशेष्यतावच्छेदकं तद्व्यक्तित्वमित्यन्यधासिद्धत्वेऽपि तद्वयक्तित्वस्य तद्वत् तद्व्यक्तित्वविषयकप्रत्यक्षत्वावच्छिन्नम्प्रत्यपि तद्व्यक्तित्वस्यान्यथासिद्धत्वं स्यादत आह- यद्धर्मावच्छिन्नं प्रतीति । तथाच — यद्धर्मावच्छिन्नकार्यता निरूपितनियतपूर्ववर्त्तित्वग्रह विशेष्यतावच्छेदकत्वे सति यद्धर्मावच्छिन्न कार्यम्प्रति स्वतन्त्रान्वयव्यतिरेकशून्यत्वं तद्धर्मावच्छिन्नम्प्रति तद्धर्मावच्छिन्नस्यान्यथासिद्धत्वं प्रथमम् । तद्वयक्तित्वस्य तद्व्यक्तिविषयक - प्रत्यक्षत्वावच्छिन्नकार्यतानिरूपित नियतपूर्ववर्त्तिग्रहविशेष्यतावच्छेदकमस्ति तथापि——तद्वयक्तित्वेन तद्वयक्तित्वं तद्वयक्तित्वप्रत्यक्षपूर्ववतीत्येवं तद्वयक्तित्वत्वावच्छिन्नतद्व्यक्तित्व विषयकप्रत्यक्षत्वावच्छिन्नकार्यतानिरूपित नियतपूर्ववत्तित्वग्रह विशेष्यतावच्छेदकं तद्वयक्तित्वत्वमेवान्यथासिद्धं नतु तद्व्यक्तित्वम् तस्य तु तद्वयक्तित्वावच्छिन्नतद्व्यक्ति विषयकप्रत्यक्षत्वावच्छिन्न कार्यतानिरूपित नियतपूर्ववर्त्तित्वग्रह - विशेष्यतावच्छेदकत्वात् इत्याशयेन दर्शनाचार्यैर्मुक्तावल्या यथाश्रुतं परित्यज्य यद्धर्मावच्छिन्नेत्युक्तमिति प्रतिभाति इति दण्डविश्वेश्वराश्रमस्वामिनः ।