________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
तत्र स्वगतरूपादिकम्प्रति समवायिकारणं घटः तेन सह कपालरूपस्यैकस्मिन्कपाले प्रत्यासत्तिरस्ति ।
(प्रभा०) द्वितीयमुदाहरति-"द्वितीयं यथा"--इति । “तत्र"--इति । घटरूपम्प्रति कारणीभूतेन घटेन सह एकस्मिन् कपालात्मकेऽधिकरणे रूपस्य परम्परया "एकार्थसमवेतत्वं सम्बन्ध" इति द्वितीयासमवायिकारणस्योदाहरणम् । एवमेव पटरूपम्प्रति तन्तुरूपादावप्युदाहार्यम् ।
__(मुक्ता०) तथाच-क्वचित्समवायसम्बन्धेन क्वचित्स्वसमवायिसमवायसम्बन्धेनेति फलितोऽर्थः । इत्थञ्च-कार्यैकार्थकारणैकार्थान्यतरप्रत्यासत्या समवायिकारणे प्रत्यासन्नं कारणं ज्ञानादिभिन्नमसमवायिकारणमिति सामान्यलक्षणम्पर्यवसन्नम् । आभ्यां समवायिकारणासमवायिकारणाभ्यां परं भिन्नं कारणं तृतीयं निमित्तकारणमित्यर्थः ॥१८॥
(प्रभा०) असमवायिकारणताया नियामकं सम्बन्धद्वयम्फलितरीत्या दर्शयति-- "तथाच"--इति । अस्यायमर्थः-घटम्प्रति य: कपालसंयोगोऽसमवायिकारणं तनिष्ठायाः कारणताया नियामकः सम्बन्धः “समवायः' संयोगस्य गुणत्वात्, कपालस्य च द्रव्यत्वात् गुणगुणिनोश्च समवायात् । घटरूपम्प्रति यत्कपालरूपमसमवायिकारणं तनिष्ठायाः कारणताया नियामकः सम्बन्धः स्वसमवायिसमवायसम्बन्धः । अत्र "स्व"पदेन कपालरूपस्य ग्रहणम् , तस्य समवायि कपालम् , तस्मिन्कपाले समवायो घटस्याप्यस्ति । अर्थात् कपालात्मके समवायिकारणे घटः समवेतो वर्त्तते । एवं स्वसमवायिसमवेतत्वसम्बन्धेन कपालरूपं घटे नीत्वा घटरूपम्प्रति तद् असमवायिकारणम्भवत्येव ।
___अयमाशयः-समानाधिकरणयोरेव कार्यकारणभावो न व्यधिकरणयोरित्यस्ति नियमः । यथा-घटकपालसंयोगयोः साक्षात्समवायसम्बन्धेन एकस्मिन् कपाले सामानाधिकरण्यम् , तथा--कपालरूपघटरूपयोरप्येकस्मिन् कपाले सामानाधिकरण्यं स्यात् । इयांस्तु विशेष:-यदेकः साक्षात्, अपरश्च परम्परया इत्येवमपि सामानाधिकरण्यम् । घटरूपं घटे साक्षात्समवायेन वर्त्तते, कपालरूपन्तु घटे स्वसमवायिसमवेतत्वसम्बन्धेन । अन्यथा कपालरूपं कपाले घटरूपञ्च घटे इति व्यधिकरणत्वात् कार्यकारणभावस्तयोर्न स्यादित्युक्तम्-एवं स्वसमवायोति।
असमवायिकारणस्य स्वयमेव निष्कृष्टं लक्षणं वक्तुमाह--"इत्थञ्च"-इति । कार्यैकार्थप्रत्यासत्तिः समवायसम्बन्धः । कारणैकार्थप्रत्यासत्तिः स्वसमवायिसमवेतत्वसम्बन्धः । निमित्तकारणलक्षणं दर्शयति-"प्राभ्यां परम्" इति । यथा"घटम्प्रति दण्डादिकम् , पटम्प्रति तुरीवेमादिकम्” । सूत्रवेष्टिता नलिका तुरी। वायदण्डो वेमा । यत्र तुरीं निधाय उभयत: सूत्रसन्तानोपरि व्यापार्यते । स्पष्टमन्यत् ।