________________
श्रसमवायिकारणलक्षणोदाहरणे ।
सम्प्रति तद्भिन्नत्वनिवेशमव्यर्थं मन्यमान श्राह - " तुरीतन्तु संयोगस्तु”इति । " वेगस्पन्दादि ” – इति । वेगजन्य क्रियादीत्यर्थः । शिष्टं स्पष्टम् ।
-
६३
" श्रात्म विशेषगुणानाम्' – इति । श्रात्मनो विशेषगुणाः ज्ञानेच्छाद्याः कुत्रापीति - कमपि जन्यं भावम्प्रतीत्यर्थः । सामान्यलक्षणे=असमवायिकारणसामान्यलक्षणे ।
इदमत्राकृतकम् - श्रात्मनो ज्ञानात्मकविशेषगुणम्प्रति श्रात्ममनःसंयोगस्य श्रसमवायिकारणता अवश्यमेषितव्या । एवं ज्ञानम्प्रति क्लृप्तकारणभाव श्रात्ममन:संयोग एवेच्छादिविशेषगुणान्प्रति श्रसमवायिकारणमिति निर्वाहे सति ज्ञानेच्छाद्यात्मविशेषगुणानाम्परस्परमसमवायिकारणभावस्वीकारो निष्फलः । इत्थञ्च - "आत्मविशेषगुणभिन्नत्वे सति समवायिकारणप्रत्यासन्नं कारणमसमवायिकारणम्" इत्यसमवायि कारणस्य सामान्यलक्षणम्फलितम् । श्रात्मविशेषगुणभिन्नत्वनिवेशेन ज्ञानादीनामिच्छादीन् प्रति, परामर्शस्य चानुमितिम्प्रति नासमवायिकारणत्वमिति * बोध्यम् ।
(मुका० ) अत्र समवायिकारणे प्रत्यासन्नं द्विविधं कार्यैकार्थप्रत्यासच्या कारणैकार्थप्रत्यासध्या च । श्रद्यं यथा - घटादिकम्प्रति कपालसंयोगादिकमसमवायिकारणम् । तत्र कार्येण घटेन सह कारणस्य कपालसंयोगस्यैकस्मिन्कपाले प्रत्यासत्तिरस्ति ।
( प्रभा० ) " अत्र " - - इति । श्रस्मिन्प्रकरण इत्यर्थः । समवायिकारणे = समवायिकारणरूपे अधिकरणे । प्रत्यासन्नम् = प्रत्यासन्नत्वम् कार्येण सहासमवायिकारणस्य सामानाधिकरण्यमित्यर्थः । “द्विविधम् " - इति । द्वे विधे कार्यैकार्थकारणैकार्थरूपे यस्य तादृशम् । कार्यैकार्थप्रत्यासच्या कार्येण सह एकाधिकरणसम्बन्धेन । कारणैकार्थप्रत्यासत्या - कारणेन सहैकाधिकरणसम्बन्धेन । क्रमश उदाहरति — “आद्यं यथा" - इति । “कपाल संयोगादिकम् ” इति । कपालद्वयसंयोगादिरित्यर्थः । “एकस्मिन् कपाल" - - इति । कपालात्मके एकस्मिन्नधिकरणे एकार्थसमवेतत्वं सम्बन्धः कपालसंयोगस्येत्यतोऽसौ प्रथममसमवायिकारणस्योदाहरणम् । एवमेव तन्तुसंयोगादावपि योजनीयम् ।
(मुक्का० ) द्वितीयं यथा - घटरूपम्प्रति कपालरूपमसमवायिकारणम् ।
* " इति बोध्यमि" ति - श्रसमवायिकारणनाशात् कार्यनाश इति वैशेषिकसमयात् परामर्शनाशेऽनुमितिनाशो न स्यादित्यसमवायिकारणत्वमनङ्गीकृतं तस्य प्रभाकृद्भिः । किन्तु — ज्ञानाद्यात्मविशेषगुणेषु निमित्तकारणत्वमेव सर्वत्रेति भावः । अन्यथा ज्ञाननाशे इच्छानाशः स्यात्, इच्छानाशे कृतिनाशः स्यात् । अनुमितिनाशस्तु स्वाऽव्यवहितोत्तरवत्तिज्ञानादेवेति, नहि परामर्शो ऽनुमित्युत्तरवर्त्तिज्ञानमिति भाव इति दण्डिविश्वेश्वराश्रमस्वामिनः ।