________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्कावल्याः [प्रत्यक्षखण्डे आत्मविशेषगुणानान्तु कुत्राप्यसमवायिकारणत्वं नास्ति, तेन तद्भिन्नत्वं सामान्यलक्षणे देयमेव ।
__(प्रभा०) मुकावल्याम् "अत्र यद्यपि" इत्यनेन असमवायिकारणलक्षणमाक्षिपति-"तुरीतन्तु" इति।
अयमर्थ:-“यस्य संयोगः स संयोगस्य प्रतियोगी, यस्मिन् संयोग: स संयोगस्यानुयोगी" इतिनियमः । अनेन तुरीतन्तुसंयोगोऽपि अनुयोगितासम्बन्धेन तन्तुसमवेतः पटरूपकार्यजनकश्चेतिकथितासमवायिकारणलक्षणलक्ष्य एव । तस्मादयम्= तुरीतन्तुसंयोगोऽपि तन्तुद्वयसंयोगवत्पटकार्यम्प्रत्यसमवायिकारणं मन्तव्यः । ___ "एवं वेगादीनाम्" इति । वेगः संस्कारभेदः पृथिव्यादिचतुष्टयमनोवृत्ति: द्वितीयपतननाद्यसमवायिकारणम् । श्रादिना स्पर्शग्रहः । “अभिघातादि" इति । "य: संयोग: शब्दस्य निमित्तकारणम् , यजनितं कर्म संयोगिनोः परस्परविभागहेतुश्च भवति स संयोगोऽभिघात" इत्युच्यते । श्रादिना नोदनपरिग्रहः । “येन संयोगेन जनितं कर्म संयोगिनोः परस्परं विभागहेतुर्न भवति, यश्च न शब्दस्य निमित्तकारणं स संयोगविशेषो नोदनम्” इति ख्यायते । एवं वेगोऽभिघाताख्यसंयोगस्यासमवायिकारणं स्यात्, स्पर्शश्च नोदनाख्यसंयोगस्यासमवायिकारणं स्यात्, द्वयोरपि स्वस्वसमवायिकारणप्रत्यासन्नत्वात् ।
"एवं ज्ञानादिकमपि" इति । ज्ञानमात्मगुणः श्रादिना इच्छापरिग्रहः । ततश्चायमर्थः सम्पद्यते-ज्ञानमिच्छायाः, इच्छा च प्रवृत्तेः असमवायिकारणं स्यात् । तल्लक्षणस्य तत्र तत्र घटितत्वात् ।
समाधत्ते “तथापि” इति । तन्तुसमवेतत्वे सति तुरीतन्तुसंयोगभिन्नत्वे सति पटकारणं पटासमवायिकारणम् । एवं कपालसमवेतत्वे सति चक्रकपालसंयोगभिन्नत्वे सति यद् घटकारणं तद् घटासमवायिकारणम् । एवं काष्ठखण्डसमवेत्वे सति यन्त्रकाष्ठखण्डसंयोगभिन्नत्वे सति यत्काष्ठपुत्तलिकाकारणं तत्काष्ठपुत्तलिकाया असमवायिकारणम् इति विशिष्यवाऽसमवायिकारणलक्षणं वक्तव्यमिति सिद्धान्तिग्रन्थार्थः । "तत्तद्भिन्नत्वम्" इति । निमित्तकारणसमवायिकारणसंयोगभिन्नत्वमित्यर्थः ।
इदमुक्तम्भवति-प्रत्येककार्यस्यासमवायिकारणलक्षणे निमित्तकारणसमवायिकारणयोर्य: परस्परं संयोगः तद्भिन्नत्वनिवेशः कर्त्तव्यः।
अत्र केचिच्छङ्कन्ते-यदि तुरीतन्तुसंयोगः पटासमवायिकारणं स्यात् को दोष ? इति । अपरे समादधते-'असमवायिकारणनाशे कार्यनाश" इति सिद्धान्तः। तद्यदि तुरीतन्तुसंयोगः पटस्य असमवायिकारणं स्वीक्रियेत तदा तुरीतन्तुसंयोगनाशे सति पटेन नष्टव्यम् , नत्वेवं दृश्यते । तस्मात्प्रदर्शितरीत्या पटासमवायिकारणलक्षणे "तद्भिन्नत्व"निवेश: कर्तव्य एव ।