________________
श्रसमवायिकारणलक्षणविवेकः ।
( प्रभा० ) " यत्समवेतम् ” – इति । यस्मिन् समवेतम् = समवायसम्बन्धेन वर्त्तमानं सत् कार्य * भवति जायते तत्समवायिजनकम् = समवायिकारणं ज्ञेयम् । “समवायसम्बन्धेन कार्यवत्त्वं समवायिकारणत्वम्” इति फलितम् । यथा - तन्तवः पटस्य, तन्तुषु समवायेनैव पटस्योत्पत्तेः ।
६१
श्रसमवायिकारणं लक्षयति परममूले - "तत्रासन्नम्”--इति । तत्र= समवायिकारणे श्रासन्नम् = सन्निहितं कारणमसमवायिकारणं द्वितीयं कारणमित्यर्थः । तृतीयं कारणं लक्षयति - " आभ्याम् " - इति ।
श्रयमर्थः - द्विविधमसमवायिकारणम् । कार्येण सहैकस्मिन्नर्थे समवेतं समवायसम्बन्धेन वर्त्तमानं सत् यत्कारणं तदेकमसमवायिकारणम् । यथा - तन्तुसंयोगः पटस्य । अत्र कार्यं पटः तेन सह एकस्मिन् तन्तौ समवेतं समवायसम्बन्धेन वर्त्तमानं सत् पटात्मक कार्यम्प्रति तन्तुसंयोगात्मकं कारणमसमवायिकारणम् । “जन्यद्रव्यमात्र प्रति श्रवयवसंयोगोऽसमवायिकारणमिति नियम" इत्यर्थः । एवमेव कपालसंयोगो घटस्य ।
कारणेन सहैकस्मिन्नर्थे समवेतं सद् यत्कारणं तदपरमसमवायिकारणम् । यथा - तन्तुरूपं पटगतरूपस्य । अत्र पटगत रूपम्प्रति कारणम् = समवायिकारणं पटः, तेन सह एकस्मिन्नर्थे = तन्तुरूपेऽर्थे समवेतं समवायसम्बन्धेन वर्त्तमानं भवति तन्तुरूपम्, गुणगुणिनोः समवायात् तादृशं यत् तन्तुरूपं तत् पटरूपम्प्रति + कारणं विद्यते तदप्यसमवायिकारणमेव । एवमेव कपालरूपं घटरूपस्य ।
"
एवञ्च " तत्रासन्नम् " इतिपदेन समवायिकारणादावतिव्याप्तिवारिता । पटसमवायिकारणे तन्तौ समवेतं यत्तन्तुत्वं तत्रातिव्याप्तिवारणाय जनकत्वमित्युक्तम्, तन्तुत्वं हि दण्डत्वादिवदन्यथासिद्धमिति न तत्कारणमिति भावः ।
( मुका० ) यद्यपि + तुरीतन्तु संयोगानां पटासमवायिकारणत्वं स्यात् । एवं वेगादीनामभिघाताद्यसमवायिकारणत्वं स्यात् । एवं ज्ञानादिकमपीच्छाद्यसमवायिकारणं स्यात्, तथापि पटासमवायिकारणलक्षणे तुरीतन्तु संयोगभिन्नत्वं देयम् । तुरीतन्तुसंयोगस्तु तुरीपटसंयोगं प्रत्ययसमवायिकारणं भवत्येव । एवं वेगादिकमपि वेगस्पन्दाद्यसमवायिकारणं भवत्येवेति तत्तत्कार्यासमवायिकारणलक्षणे तत्तद्भिन्नत्वं देयम् ।
* अनेकार्थी धातव इति स्मर्त्तव्यम् ।
+ पटोत्पत्तेः प्राक् तदधिकरणे तन्तौ रूपस्य विद्यमानत्वात्तस्य कारणत्वम् ।
+ तुरीतन्तु संयोगादीनामपि पटादिसमवायिकारणे तन्त्वादौ समवायसम्बन्धेन प्रत्यासन्नत्वादिति भावः ।