________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
"तम्यापि” इति । प्रात्ममहत्परिमाणस्यापीत्यर्थः । “न कारणत्वम्"इति । तदपि कारणताधर्मशून्यमिति प्राचार्याणाम्=प्रशस्तपादव्याख्यां कुर्वतामुदयनाचार्याणां किरणावलीग्रन्थ इति शेषः । श्राशयो मतमित्यन्ये ब्रुबते । अर्थात् “आदिग्रहणात्परममहत्त्वं गृह्यते” इति वदतामाचार्याणां मते अात्मनिष्ठपरममहत्परिमाणमपि कारणताधर्मशून्यमिति केचित् । तदेतत् खण्डयति-'तन्न"- इति । ज्ञानातिरिक्तमिति ज्ञानम्प्रति तु आत्मवृत्तिपरममहत्परिमाणं कारणं ज्ञानभिन्नम्प्रति न कारणमित्याचार्याणामाशय इति सिद्धान्तानुयायिन इत्यर्थः ॥ १५॥ (का०) अन्यथासिद्धिशून्यस्य नियता पूर्ववर्तिता ।
कारणत्वं भवेत्तस्य त्रैविध्यं परिकीर्तितम् ॥१६॥ समवायिकारणत्वं ज्ञेयमथाप्यसमवायिहेतुत्वम् ।
एवं न्यायनयज्ञैस्तृतीयमुक्तं निमित्तहेतुत्वम् ॥१७॥ (मुक्ता०) ननु कारणत्वं किम् ? अत आह-अन्यथासिद्धीति । तस्य कारणत्वस्य ॥१६, १७॥
(प्रभा०) पन्चदशम्यां कारिकायां कारणत्वमुदाहृतमित्युक्रम् । तत्र किं कारणत्वमित्यपेक्षायां कारणत्वं लक्षयति–(परममूले) "अन्यथासिद्धिशून्यस्य" इति । अत्र निष्ठत्वं षष्ठ्या अर्थः । तेनायमर्थों भवति-अन्यथासिद्धिशून्यनिष्ठा या नियता अवश्यम्भाविनी पूर्ववर्त्तिता=कार्योत्पत्त्यव्यवहिते पूर्वस्मिन् क्षणे कार्याधिकरणवृत्तिता तदेव कारणत्त्वम् । पूर्ववर्तिनो भावः पूर्ववर्तिता । सा च कदाचिदागते रासभादावप्यस्ति इति तत्रातिव्याप्तिवारणाय "नियता" इति । नियतपूर्ववर्त्तिता दण्डत्वादावप्यस्ति, दण्डत्वादिरपि नियमेन घटादिकार्यपूर्ववर्तीति दण्डत्वे कारणलक्षणप्रसङ्गो माभूदत आह-"अन्यथासिद्धिशून्यस्य” इति । एवम्च-अनन्यथासिनियतपूर्ववृत्तित्वं कारणत्वम्-यथा घटम्प्रति दण्डः कारणमिति से निर्गलितोऽर्थः । तद्विभजते-"तस्य"-इति । तस्य-कारणत्वस्य । "त्रैविध्यम्” इति । तिस्रो विधा अस्येति त्रिविधं तस्य भाव: त्रैविध्यं त्रिविधत्वमित्यर्थः । ब्राह्मणादित्वात् प्यञ् । स्पष्टमन्यत् ॥ १६, १७ ॥ (का०) यत्समवेतं कार्य भवति ज्ञेयन्तु सयवायिजनकं तत् ।
तत्रासनं जनकं द्वितीयमाभ्यां परं तृतीयं स्यात् ॥१८॥
(मुक्ता०) तत्रेति । समवायिकारणे अासन्नं प्रत्यासन्नं कारणं द्वितीयसमवायिकारणमित्यर्थः।
* वक्रन्यायनयरसाभिनिविष्टचेतसस्तु-अनन्यथासिद्धकार्याव्यवहितप्राक्क्षणावच्छेदेन कार्याधिकरणवृत्त्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वं कारणत्वमिति निष्कर्षयन्ति ।