________________
परमाणुपरिमाणविषयकयोगिप्रत्यक्ष नवीनप्राचीनमते ।
५६
भावः सामान्यलक्षणाजन्यज्ञाने अनुमितौ च परमाणुपरिमाणस्यास्त्येव कारणाभाव इति पुनरपि “पारिमाण्डल्यभिन्नानामि"ति मूलसङ्गतमेवेत्यत अाह-"शायमानं सामान्यम्" इत्यादि । वर्तमानकालिकं यज्ज्ञानं तादृशज्ञानविषयीभूतं सामान्य "ज्ञायमानसामान्यम्" इत्युच्यते । एवमेव वर्तमानकालीनज्ञानविषयीभूतं लिङ्गम्= हेतुः "ज्ञायमानलिङ्गम्" भवति । .
एषोऽत्र नव्यानां सिद्धान्तः-नहि पृथिव्यादिपरमाणुनां भेदको विशेषपदार्थ: । अपितु-विशेषस्य ज्ञानं भेदकम्, एवमेव ज्ञायमानसामान्यं न प्रत्यासत्तिः= अलौकिकसन्निकर्षः, किन्तु सामान्यज्ञानमात्रं सामान्यलक्षणा प्रत्यासत्तिः । इत्थं ज्ञायमानं लिङ्गं नानुमितिकारणम्, प्रत्युत लिङ्गज्ञानमात्रमनुमितिहेतुः । एतच्च सर्वमग्रे मूल एव स्फुटीभविष्यति ।
प्राचीनास्तु-परमाणुपरिमाणमपि विषयविधया योगिप्रत्यक्ष कारणमाचक्षते। तद्वदेव–“परमाणुः अणुपरिमाणवान्" इत्याकारकज्ञानोत्तरं “सर्वे परमाणवोऽणुपरिमाणवन्तः" इत्याकारकमलौकिकं परमाणुपरिमाणविषयकं प्रत्यक्षं सामान्यलक्षणाप्रत्यासत्या जायते, एतादृशालौकिकसम्बन्धरूपेण परमाणुपरिमाणमपि कारणम् ।।
किञ्च-“परमाणुर्द्रव्यमणुपरिमाणात्" इत्याकारानुमितौ अणुपरिमाणस्यापि हेतुभावः स्पष्ट एवेति स्वीकुर्वन्ति । एवमयं ग्रन्थो * नवीनसिद्धान्तमाश्रित्यैव विश्वनाथेन प्रपञ्चित इति ध्येयम्।
"प्रात्ममानस"-इति । "ज्ञानवानहम् , इच्छावानहम् , सुख्यहम् , दुःख्यहम्" इत्याकारके आत्मनो मानसप्रत्यक्षे आत्मनिष्ठपरममहत्परिमाणस्य कारणभावोऽस्ति, यतः--"द्रव्यीयलौकिकप्रत्यक्षम्प्रति समवायेन महत्त्वं कारणम्" इति नियमः । तस्मादात्मनिष्ठपरममहत्परिमाणं विहाय आकाशादिनिष्ठं परममहत्परिमाणं कारणताशून्यमिति विज्ञेयम् । कारणत्वमिति मूले । ज्ञायमानसामान्यस्य प्रत्यासत्तित्वे=परमाणुत्वसामान्यलक्षणप्रत्यासत्त्या परमाणुत्वेन सकलपरमाणुगोचरमानसबोधोऽतीन्द्रियसामान्यस्य कारणत्वादाह-अतीन्द्रियसामान्यं न प्रत्यासत्तिरिति । ज्ञायमानलिङ्गस्याऽनुमितिकरणत्वे "गगनं विभु परममहत्परिमाणात्" इत्यनुमितौ परममहत्परिमाणस्य कारणत्वादाह-"ज्ञायमानं लिङ्गं नाऽनुमितिकरण"मिति । उदयनाचार्यमते तु—इदमपि योगिप्रत्यक्षे विषयस्य न कारणत्वमित्याधभिप्रायोपवर्णनमप्यनुपादेयम् । विषयादीनां योगिप्रत्यक्षादिषु कारणत्वस्वीकारेऽपि ज्ञानम्प्रत्येव तेषां कारणत्वात् । आचार्यैस्तु ज्ञानातिरिक्तं प्रत्येवाऽकारणत्वाभिधानात् तस्य च तेष्वपि सत्त्वादिति भाव इति दण्डिविश्वेश्वराश्रमिणः ।
* इदं चिन्त्यम्- "कारणत्वञ्चान्यत्र परिमाण्डल्यादिभ्य" इति बहुप्राचीनेऽपि प्रशस्तपादसङ्ग्रहे प्राचां सम्मत्त्युपलब्धेरित्यके।