________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[ प्रत्यक्षखण्डे
इति न्यायप्रक्रिया नाकावयविजन्यम् ( त्वम् ) । श्रत एव ( अनेकावयविजन्यत्वाभावादेव ) तत् (द्व्यणुकं ) न अपकृष्टमहत्परिमाणवत् किन्त्ववेवेति । एवञ्च - परमाणुपरिमाणं द्व्यणुकपरिमाणञ्च द्वे अपि परिमाणे न कस्यापि कारणं तद्भिन्नं सर्वं किञ्चित्प्रति किञ्चित्कारणमस्त्येवेति " पारिमाण्डल्यभिन्नानां कारणत्वं समानो धर्म" इति युक्तमुक्तम् ।
"एवम्" इति । " बोध्या" इति । अलक्ष्यत्वेन न कारणानि बोध्या इत्यर्थः । यथा परमाणुपरिमाणं न कस्यापि कारणं, तथा श्राकाशकालादिनिष्ठं परममहत्परिमाणं तथा परमाण्वादिनिष्ठं परमाणुत्वादिकमतीन्द्रियं सामान्यं, स्वतोन्यावृत्तो विशेष - पदार्थश्चैतेऽपि न कस्यचित्कारणानि । परमाणुपरिमाण - द्व्यणुकपरिमाणाकाशादिनिष्ठपरममहत्परिमाणपरमाणुगतातीन्द्रियपरमाणुत्वरूपसामान्यभिन्नानां कारणत्वं साधर्म्य - मिति समस्तप्रघट्टार्थः । एतच्च " कारणत्वञ्चान्यत्र पारिमाण्डल्यादिभ्यः" इति प्रशस्तपादीयवाक्यगतादिपदमूलकम्बोध्यम् ।
५८
(मुला० ) इदमपि योगिप्रत्यक्षे विषयस्य न कारणत्वम् । ज्ञायमानसामान्यं न प्रत्यासत्तिः । ज्ञायमानं लिङ्गं नानुमितिकरणमित्यभिप्रायेणोक्तम् । श्रात्ममानसप्रत्यक्षे श्रात्ममहत्वस्य कारणत्वान्महत्परिमाणं कालादेर्बोध्यम् । तस्यापि न कारणत्वमित्याचार्याणामाशय इत्यन्ये, तन्न, ज्ञानातिरिक्तं प्रत्येवाकारणताया श्राचार्यैरुक्तत्वात् ॥ १५ ॥
( प्रभा० ) ननु - योगिप्रत्यते विषयरूपत्वेन परमाणुपरिमाणमपि कारणं भवति, नहि निर्विषयं किमपि ज्ञानम्, तत्कथं पारिमाण्डल्यभिन्नानां कारणत्वं साधर्म्यमुकम् इत्याशङ्कायामाह - " इदमपि " इति । पारिमाण्डल्यभिन्नानां कारणत्वस्य कथनमपीत्यर्थः । नवीनमताभिप्रायेणोक्तम् । अर्थात् ये योगिप्रत्यते विषयस्य कारणभावं नब्रवते तेषां मतेनोक्तमिदम् ।
७
एतेषामयमाशयः - " * प्रातिभाद्वा सर्वम्" ( यो० ३ | ३३ ) इति योगसूत्रोक्त दिशा योगिनः समाधिभावनाप्रकर्षेण श्रतीतानागत दूरविप्रकृष्टसकलवस्तूनां साक्षात्कारे प्रभवन्ति । सोऽयं तेषां साक्षात्कारो योगजधर्मप्रत्यासत्या जायमानोऽतीतादिपदार्थेषु यथा विषयसत्तां नापेक्षते, एवमेव वर्त्तमानविषयेष्वपि परमाणुपरिमाणादिषु विषयसत्तानिरपेक्ष एव जायते । तस्मात्तादृशे योगिसाक्षात्कारे परमाणुपरिमाणं न विषयविधया कारणम् ।
स्यादेतत् -- माभूत् परमाणुपरिमाणस्य । योगिप्रत्यते विषयविधया कारण
* यथा सूर्योदयस्य पूर्वलिङ्गं प्रभा, तद्वत्प्रसङ्ख्यानस्य पूर्वलिङ्गं प्रातिभं ज्ञानमित्यर्थः । स्वप्रतिभोत्थमनौपदेशिकं ज्ञानं प्रातिभमित्युच्यते । अनेन ज्ञानेन करामलकवत्सर्वं जानाति योगी ।
↑ योगिनां प्रत्यक्षे पारिमाण्डल्यस्य कारणत्वादाह – योगिप्रत्यक्षे न विषयस्य