________________
परिमाणस्य स्वसमानजातीयोत्कृष्टपरिमाणजनकत्वम् ।
५७
कारणं तदा त्र्यणुकस्य प्रत्यक्षमेव न स्यात्, परिमाणस्य स्वसमानजातीयोत्कृष्टपरिमाणजनकत्वनियमात् स्वसमाजातीयं स्वतुल्यजातीयं यत् उत्कृष्टपरिमाणं स्वतोऽधिकं परिमाणं, तदेव जनयति परिमाणम् । अत एवाग्रे घ्यणुकं त्र्यणुकञ्च सङ्ख्याजन्यमिति वक्ष्यति, तस्मादणुद्ध्यणुकपरिमाणे नैव कस्यापि कारणे इत्यर्थः।
* अयमभिसन्धिः - “परिमाणं स्वसमानजातीयोत्कृष्टपरिमाणं जनयति" इत्यस्ति नैयायिकसिद्धान्तः । तथासति यदि अणुपरिमाणं, ब्यणुकपरिमाणं जनयिष्यति तदोत्कृष्टमेव जनयिष्यति । उत्कृष्टञ्च अणोरणुतरमेव, अणोरुत्कृष्टता तु अणुतरत्वे सत्येव भवति, यतो हि अणुशब्दाद् उत्कर्षवाची तर प्रत्ययो यद्यानीयेत तदाणुतरशब्दो व्याकरणरीत्या अण्वपेक्षया अपकृष्टार्थ एव फलिष्यति नोत्कृष्टार्थः, धणुकपरिमाणन्तु अणुपरिमाणापेक्षया उत्कृष्टभावम् , अत एव तस्य परमाणुपरिमाणं न कारणम् ।
एवमेव घ्यणुकपरिमाणं त्र्यणुकपरिमाणम्प्रति कारणं तदा भवेत् यदि त्र्यणुकपरिमाणं ब्यणुकपरिमाणादुत्कृष्टमपि भवेत् , तत्समानजातीयमपि च स्यात् । परन्तु त्र्यणुकपरिमाणं घ्यणुकपरिमाणापेक्षयोत्कृष्टन्तु वर्त्तते, तत्समानजातीयमणु नास्ति । प्रत्युत तद्विजातीयं त्र्यणुकं महदस्ति । तत्र कारणन्तु–“त्रिभिद्यणुकैरेकं त्र्यणुकमारभ्यते" इत्यस्ति न्यायसिद्धान्तः । तस्मादनेकावयविजन्यं त्र्यणुकद्रव्यं, तत्र-व्यणुका-: पेक्षया अपकृष्टं महत्त्वमेवोत्पद्यते "अपकृष्टं यन्महत्त्वं तत्प्रति अनेकावयविजन्यं द्रव्यं कारणम्” इति नियमात् । ब्यणुकं (के) तु--"द्वाभ्यामणुभ्यामेकं ब्यणुकमारभ्यते"
* अयमभिसन्धिरिति-परमाणुपरिमाणापेक्षया द्वथणुकपरिमाणं नोत्कृष्टं, परमाणुद्वयसंयोगस्य व्याप्यवृत्तित्वात् तज्जन्यस्य द्वयणुकस्य परिमाणे नोत्कर्षः एकस्मिन्परमाणावपरस्य ‘परमाणोलीनप्रायत्वात् । व्यणुकपरिमाणन्तु महत्परिमाणत्वाद्विजातीयम्, अर्थात् विरुद्धपरिमाणाऽsक्रान्तत्वाद्विजातीयम् । एवं विरुद्धपरिमाणाक्रान्तत्वात् कार्यद्रव्यस्य द्वयणुकपरिमाणस्य न तत्परिमाणजनकत्वम् । तस्मात् व्यणुकपरिमाणं यद्यपि परमाणुपरिमाणसजातीयमस्ति, तथापि तस्यो. त्कृष्टत्वाभावात् न तज्जनकत्वं परमाणुपरिमाणस्य । त्र्यणुकपरिमाणन्तु विजातीयं न तज्जनकत्वं द्वयणुकपरिमाणस्य । परिमाणस्यायं स्वभावो यत्स्वसमानजातीयस्य स्वोत्कृष्टस्य च परिमाणस्य जनकत्वं नाम, यथा-हस्वपरिमाणात् कपालात् हस्वपरिमाणो घटः, एवं दीर्घपरिमाणात् कपालात् दीर्घपरिमाणो घटो जायते, तस्माद् द्वथणुकपरिमाणं त्र्यणुकपरिमाणञ्च न परिमाण किन्तु सङ्ख्याजन्यमिति वैशेषिकसमयः । अत एव वक्ष्यति
"सङ्ख्यातः परिमाणाच्च प्रचयादपि जायते" । इति ॥
ननु-द्रव्यस्य गुणम्प्रति कारणत्वात् कारणस्य च पूर्वक्षणवृत्तित्वनियमात् महत्परिमाणोत्पत्ते: प्राक् त्र्यणुकस्य विरुद्धपरिमाणाक्रान्तत्वाभावात् तदैव तत्र द्वषणुकपरिमाणं स्वसमानजातीयपरिमाणारम्भकं स्यादिति चेन्न तस्य कार्यद्रव्यसाहित्येनैवोत्पत्तिस्वीकारादिति भावः ।