________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्रावल्याः . [प्रत्यक्षखण्डे mmmmmmmm
(का०) सामान्यपरिहीनास्तु सर्वे जात्यादयो मताः । (मुका०) सामान्यानधिकरणत्वं सामान्यादीनामित्यर्थः।
(प्रभा०) "सामान्यपरिहीनास्तु" इति । सामान्यविशेषसमवायाभावाः सर्वेऽपि सामान्येन जात्या हीनाः, अर्थात् एषु सामान्यं न विद्यते इत्यर्थः । यद्यप्येकार्थसमवायसम्बन्धेन जात्यादयोऽपि सामान्यवन्त एव, तथापि तेषु न सामान्यनिरूपिता अधिकरणता * । एकार्थसमवायस्तु नाधिकरणताया नियामकः सम्बन्ध इत्यभिप्रायेण सामान्यपरिहीनत्वस्य परिष्कृतं स्वरूपमाह-"सामान्यांनधिकरणत्वम्” इति । एतच्च “सामान्यादीनां त्रयाणाम्...असामान्यविशेषवत्त्व' मिति प्रशस्तमूलकमेव । : (का०) पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम् ॥१॥
(मुक्ता०) पारिमाण्उल्येति । पारिमाण्डल्यमणुपरिमाणं कारणत्वं तद्भिन्नानामित्यर्थः । अणुपंरिमाणन्तु न कस्यापि कारणम् । तद्धि खाश्रयारब्धद्रव्यपरिमाणारम्भकं भवेत् तच्च न सम्भवति, परिमाणस्य स्वसमानजातीयोत्कृष्टपरिमाणजनकत्वनियमान्महदारब्धस्य महत्तरत्ववदणुजन्यस्याणुतरत्वप्रसङ्गात् । एवं परममहत्परिमाणमतीन्द्रियसामान्य विशेषाश्च बोध्याः।
(प्रभा०) पारिमाण्डल्यपदार्थोऽप्रसिद्ध इति कृत्वा निर्वचनेन दर्शयतिपारिमाण्डल्यम् अणुपरिमाणमिति । अणोः परिमाणं पारिमाण्डल्यमिति पृषोदरा- ' दित्वात्साधुः । पारिमाण्डल्यपदं व्यणुकपरिमाणस्याप्युपलक्षणम् । यथा परमाणुपरिमाणं न कारणं तथा ब्यणुकपरिमाणमपि न कारणम् । 'ब्यणुकस्य परिमाणान्तरयोगात् अणुत्वहस्वत्वे हि घणुकवर्तिनी परिमाणे वर्णयन्ति" इति शाङ्करभाष्यानुरोधादपि ब्यणुकपरिमाणन्तु पारिमाण्डल्यात्-परमाणुपरिमाणात् भिन्नमणुसंज्ञकं परिमाणम् । अत एव मूल उपलक्षणोक्तिरपि सङ्गता भवति अन्यथा तदसङ्गतिः स्पष्टैवेत्यपि बोध्यम् । एवञ्च-यणुकपरिमाणमपि न कारणम् । तथाच--"परमाणु. परिमाणब्यणुकपरिमाणभिन्नेषु कारणत्वं वर्त्तते, तद्भिन्नानां कारणत्वं साधर्म्यम्" यदि + अणुपरिमाणं कारणं स्यात् तदा ब्यणुकमणुतरं भवेत् , ब्यणुकपरिमाणं चेत्
एकस्मिन्नर्थे समवायेन सत्त्वमेकार्थसमवायः । यथा- "एक रूपम्" इति प्रतीतौ रूपे गुणे (वस्तुतो निर्गुणेऽपि ) एकत्वसङ्ख्याया: भानम् , तत्र न रूपे एकत्वं समवैति, किन्तु एकार्थसमवायसम्बन्धेन वर्तते । अर्थात् यस्मिन् घटादौ रूपं समवायेन तत्रैव एकत्वं समवायेनेति तयोरेकार्थसमवायः सम्बन्धः । परमयं नैव रूपे एकत्वाधिकरणतायाः नियामकः । अथवास्वसमवायसमवेतत्वं तत्त्वम् ।।
+परमाणुपरिमाणमित्यर्थः।