________________
द्रव्यगुणकर्मणां गुणादिषण्णाञ्च साधर्म्यम् ।
गुणादिरिति । यद्यपि गुणक्रियाशून्यत्वमाद्यक्षणे घटादावतिव्याप्तं क्रियाशून्यत्वञ्च गगनादावतिव्याप्तम् । तथापि -- गुणवदवृत्तिधर्मवत्वं कर्मवदवृत्तिपदार्थविभाजकोपाधिमध्वं तदर्थः । नहि घटत्वादिकं द्रव्यत्वं वा गुणवदवृत्ति कर्मवदवृत्ति वा किन्तु गुणत्वादिकम् । तथा-- श्राकाशत्वादिकं तु न पदार्थविभाजकोपाधिः || १४ ||
( प्रभा० ) “आद्यास्त्रय" इति । आदौ भवा: श्राद्याः । * भवार्थे यत् । द्रव्यगुणकर्माणि सत्तावन्ति इत्यर्थः । सत्तावत्त्वञ्च समवायसम्बन्धेन बोध्यम् । तथाच " द्रव्यादीनां त्रयाणामपि सन्तासम्बन्ध" इति प्रशस्तम् ।
" गुणादिरितीति । गुण श्रादिर्यस्येति तद्गुणसंविज्ञानो बहुब्रीहिः तेन गुणस्यापि सङ्ग्रहः । तथाच — गुणकर्मसामान्यविशेषसमवायाभावाः निर्गुणा निष्क्रियाश्चेत्येषां गुणशून्यत्वं = गुणात्यन्ताभाववत्त्वं क्रियाशून्यत्वञ्च = क्रियात्यन्ताभाववत्त्वन्च साधर्म्यमित्यर्थः । एवमपि घटादौ श्राकाशादौ च प्रतिव्याप्तिरायाति ।
1
तथाहि - " उत्पन्नं द्रव्यं क्षणमगुणं तिष्ठति" इत्यस्त्येको नियमो नैयायिका'नाम् । तेन प्राद्यणे द्रव्यमपि निर्गुणं = गुणशून्यम् । श्राकाशे कालादौ च विभुपदार्थे क्रियैव न जायते, तेन श्राकाशादिः पदार्थोऽपि निष्क्रियः = क्रियाशून्यः । इत्थं गुणादीनामुच्यमानं साधर्म्यं द्रव्येऽप्यतिप्रसक्तमिति भवति शङ्का, तामिमां शङ्का परिहर्त्तुं जातिघटितवाक्यं विवत्तया दर्शयति - " गुणवृदवृत्ति " - इति ।
e
अयमर्थः - गुणोऽस्यास्तीति गुणवत्= द्रव्यं तत्र अवृत्तिः =न वृत्तिर्यस्य सः एवम्भूतोयो धर्मो गुणत्वादिरूपः, तद्धर्मवन्तो ये गुणाद्याः तद्वत्त्वं विवचितमिति न दोषः । श्रर्थात् गुणत्वधर्मवान् गुण एव कर्मत्वधर्मवन्ति कर्माण्येवेति विवक्षया फलितेऽर्थे घटपटादिद्रव्येऽतिव्याप्तिर्युदस्ता ।
1
एवमेव – “कर्मवदवृत्ति" इति । कर्म - चलनात्मकं कर्मेति तल्लक्षणात् कर्मवत् द्रव्यमेव, तत्र न वृत्तिर्वर्त्तनं यस्य एवम्भूतो यः पदार्थस्य विभाजक: = पदार्थत्वस्य साक्षाद्व्याप्यः उपाधिर्गुणत्वादिरेव धर्मः । द्रव्यत्वन्तु पदार्थस्य विभाजक उपाधिः सन्नपि न कर्मवदवृत्ति किन्तु कर्मवद्वृत्ति = द्रव्यवृत्ति एवेत्यर्थः । श्राकाशत्वादिधर्मस्तु द्रव्यत्वस्य साक्षाद्व्याप्यः, नतु पदार्थत्वस्य साताव्याप्यः । अपितु पदार्थत्वव्याप्यं द्रव्यत्वम्, तेन व्याप्यमाकाशत्वादिकमिति परम्परया पदार्थत्वव्याप्यता । श्राकाशत्वादिकन्तु न पदार्थविभाजकोपाधिः किन्तु द्रव्यविभाजकोपाधिरिति भावः । इत्थमुपरिदर्शितरीत्या विवक्षाकरणेन श्राकाशादिष्वपि प्रतिव्याप्तिर्वार्यते । उक्तञ्च प्रशस्तपादे - " गुणादीनां पञ्चानामपि निर्गुणत्वनिष्क्रियत्वे" इति ॥ १४ ॥
* "दिगादिभ्यो यत्" ( ४ । ३ । ५५ ) इति सूत्रेणेत्यर्थः । श्रादिशब्दस्य दिगाद्यन्तर्गतत्वात् ।