________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
व्यक्तय: तवृत्तिः तेषु वर्तमानो यः पदार्थविभाजकोपाधि:-पदार्थत्वस्य साक्षाद् व्याप्यो धर्मः द्रव्यत्वं, तद्वत्त्वविवक्षायां न दोषः । अर्थात् पदार्थत्वस्य साक्षाध्याप्यं द्रव्यत्वं प्रत्येकं घटादिषु आकाशे च वर्त्तत एवेति नवाव्याप्तिः । अनेकभाववृत्तित्वं स्वप्रतियोगिवृत्तित्वस्वसामानाधिकरण्योभयसम्बन्धेन भेदविशिष्टत्वे सति भाववृत्तित्वम् । तेन गुणादौ सङ्ख्यारूपस्यानेकत्वस्याभावेऽपि नाव्याप्तिरिति दिनकरभट्टः ।
नन्वनेकेभाववृत्तीति- अत्र अनेकत्वं यदि बहुत्वसङ्ख्या तदा गुणादौ सङ्ख्याविरहात्तेष्वव्याप्तिः, यदि च यत्किञ्चिदेकभिन्नत्वं तदा समवायेऽतिव्याप्तिः, यदि तु एकत्वावच्छिन्नसामान्यभेदः, तत्र चकत्वं यदि सङ्ख्यारूपं तदोक्कातिव्याप्तितादवस्थ्यम्, यदि च तन्मात्रविषयकबुद्धिविषयत्वं तदाऽप्रसिद्धिः, स्वमात्रविषयकबुद्धिविषयत्वरूपैकत्वस्य केवलान्वयितया तदवच्छिन्नसामान्यभेदाऽप्रसिद्धरित्याशङ्कानिरासाय अनेक.भाववृत्तित्वं निर्वक्ति अत्रचेति रामरुद्रः। .. “समवायिन" इति-समवाय एषामस्तीति सववायिनः । मत्वर्थीय इन् प्रत्ययः । सामान्ये विशेषे च किमपि धर्मान्तरं समवायसम्बन्धेन न वर्तते, तेन अस्याप्यव्याप्तिरेवेति शङ्कामपाकुर्वन्नेव समवायित्वस्य विवक्षितमर्थमाह-“समवायित्वञ्च" इति । समवायप्रतियोगित्वमेव समवायिपदेन विवक्षितं, सामान्यं विशेषाश्च समवायसम्बन्धेन सम्बन्धिनः वृत्तिमन्तः तेन नोक्को दोष इति भाव: । एवञ्च समवायित्वस्य द्वावौँ भवतः । समवायानुयोगित्वं समवायप्रतियोगित्वञ्च । तत्राद्यार्थविवक्षायामव्याप्तिदोषः, द्वितीयार्थविवक्षायानास्तीति ग्रन्थकर्तुराशयः।
एवं कृतेऽपि नित्याः परमाण्वादयो न कस्मिंश्चिदपि पदार्थे समवायेन सम्बन्धिनः (वृत्तिमन्तः) तेष्वव्याप्तिस्तदवस्थेति मत्त्वा परिष्कृतं साधर्म्यस्य (समवायित्वस्य) स्वरूपमाह-"समवेतवृत्ति' --इति । अयमर्थः-समवेतेषु घटादिषु रूपादिषु च वृत्तिवर्त्तनं यस्य, एवम्भूतो यः पदार्थस्य विभाजकोपाधिः पदार्थत्वसाक्षाद्वयाप्यो धर्मः द्रव्यत्वगुणत्वादिरूपः, तादृशोपाधिमत्त्वं विवक्षितम्।
___ एवआतिघटितविवरणेन भूतलादिचतुष्टयपरमाणषु आकाशादिपञ्चसु च नाव्याप्तिः । तत्र विवक्षितद्रव्यत्वादिधर्मस्य यथायोगं वर्त्तमानत्वात् ।
अपिच–“समवेतसमवेतत्वं" द्रव्यादिचतुणं साधयं बोध्यम् । “द्रव्यादीनां पञ्चानां समवायित्वमेनेकत्वञ्च" इत्यार्षम् ।
(का०) सत्तावन्तस्त्रयस्त्वाद्या गुणादिनिर्गुणक्रियः ॥१४॥ (मुक्ता०) सत्तावन्त इति । द्रव्यगुणकर्मणां सत्तावत्वमित्यर्थः ।
* समवेतवृत्तिपदार्थविभाजकोपाधिमत्त्वं तदर्थः । समवेतेषु स्वकारण कपालादौ समवायसम्बन्धेन वर्तमानेषु घटपटादिषु समवेतो यः पदार्थविभाजकोपाधिः पदार्थत्वस्य साक्षाव्याप्यो धर्म: द्रव्यत्वगुणत्वादिः, तद्वत्त्वमित्यर्थः ।