________________
द्रव्यादिपन्चानां साधर्म्यम् ।
इत्यथः।
प्यत्यन्ताभावः इत्यभिप्रायेणाह-"केवलान्वयित्वात्” इति । परममूले-आदिना ॐ अभिधेयत्वं प्रमेयत्वम् , अस्तित्वञ्च सगृह्णाति ।
ज्ञानविषयत्वं ज्ञेयत्वम् , अभिधाविषयत्वमभिधेयत्वम् , प्रमाविषयत्वं प्रमेयत्वम्; कालसम्बन्धित्वमस्तित्वमिति सप्तानां पदार्थानां समानो धर्म इत्यर्थः ।
___तथाच-“षण्णामपि पदार्थानामस्तित्वाभिधेयत्वज्ञेयत्वानि" इति + प्रशस्ता वाक् ।
अत्रास्तित्वमिति स्वरूपवत्त्वमुक्तम् । यस्य वस्तुनो यत्स्वरूपं तदेव तस्यास्तित्वम् इति प्राचां व्याख्यानं हृदि कृत्वा विश्वनाथेन सप्तानामेव साधर्म्य सङ्गृहीतम् । + कालसम्बन्धित्वमस्तित्वमिति तु नव्यानां कुसृष्टिरेवेति सूक्ष्मं निरीक्ष्यम् ॥१३॥ . .
(का०) द्रव्यादयः पञ्च भावा अनेके समवायिनः ।
(मुक्ता०) द्रव्यगुणकर्मसामान्यविशेषाणां साधर्म्यमनेकत्वं समवायित्वञ्च । यद्यप्यनेकत्वमभावेऽप्यस्ति तथाप्यनेकत्वे सति भावत्वं पञ्चानां साधर्म्यम् । तथाच-अनेकभाववृत्तिपदार्थविभाजकोपाधिमास्वं फलितोर्थः । तेन प्रत्येकं घटादावाकाशादौ च नाव्याप्तिः । समवायित्वञ्च समवायसम्बन्धेन सम्बन्धित्वं नतु समवायवत्वं सामान्यादावभावात् । तथाच-समवेतवृत्तिपदार्थविभाजकोपाधिमत्त्वमिति फलितोऽर्थः । तेन. नित्यद्रव्येषु नाव्याप्तिः।
(प्रभा०) सप्तमस्याभावपदार्थस्य कथनेनैव द्रव्यादीनां षण्णां भावत्वं साधर्म्य सुस्पष्टमिति पुनरुक्तिभयेन तदुपेच्य पञ्चानां साधर्म्य वक्ति-"द्रव्यगुण"---इत्यादि । परममूले "द्रव्यादयः पञ्चे"ति उद्देश्यपदम् । “भावा अनेक" इति विधेयपदम् । यमुद्दिश्य लक्ष्यीकृत्य विधेयस्य प्रवृत्तिर्भवति तदुद्देश्यमनुवाद्यमिति यावत् । उद्देश्ये, प्रकारतया विशेषणतया ज्ञायमानो विलक्षणविषयतावान् पदार्थो विधेय इत्यन्यदेतत् । "अनेकत्वे" इति । समवायेऽतिव्याप्तिवारणाय सत्यन्तम् । अभावेऽतिव्याप्तिवारणाय भावत्वमिति।
ननु-प्रत्येकमनेकेषु घटेषु एकैकत्वं नत्वनेकत्वम् , आकाशे च अनेकत्वं नास्ति तस्यैकव्यक्तिरूपत्वात्, भावत्वञ्चोभयत्र । तेन "अनेकत्वे सति भावत्वम्” इति साधर्म्यस्य आकाशे, एकैकस्मिन् घटादिपदार्थे च अन्याप्तिरेवेति तत्परिहाराय परिष्कृतं साधर्म्यमाह-"अनेकभाववृत्ति"--इत्यादि । अस्यायमर्थः--अनेके ये भावाः घटपटादि
अभिधेयत्वमभिधाविषयत्वम् , अभिधा च सङ्केतग्राह्योऽधिकपदार्थ इति मीमांसकाः । सङ्केतभिन्नायामभिधायां मानाभावात् सङ्केत एवाभिधेति नैयायिकाः।
प्रशस्तपादाचार्यकृतपदार्थधर्मसङ्ग्रहोक्तं वाक्यमित्यर्थः । * काले कालसम्बन्धित्वाभावादिति तु निगूढं हृदयम् ।'