________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[ प्रत्यक्षखण्डे
"
प्रत्येकमपि पर्याप्तत्वात् । एकत्रापि " श्रयं घटः" इति घटत्वप्रतीतेः । द्वितीयो यथाएकघटवति देशे “घटपटौ न स्तः” इति द्वित्वावच्छिन्नाभावः । एवमेव एकघटवति “इह न घटौ” “घटो न घटपटौ “एको न द्वौ ” इत्याकाराभ्यः प्रतीतिभ्यः एकघटवति द्वित्वावच्छिन्नोभयात्यन्ताभावस्य एकस्मिन्नुभयाऽन्योऽन्याभावस्य च सत्वादिति न्यायमञ्जर्यादिषु सुस्पष्टम् ।
५२
इति प्रभासहितायां मुक्तावल्यां पदार्थसामान्यनिरूपणा नाम प्रथमा मुक्का ।
(का०) सप्तानामपि साधर्म्यं ज्ञेयत्वादिकमुच्यते ॥ १३ ॥
(०) इदानीं पदार्थानां साधर्म्य वैधर्म्यञ्च वक्रं प्रक्रमते - समानो धर्मो येषां ते सधर्माण:, तेषां भावः साधर्म्यम्, समानो धर्म इति फलितार्थः । एवम् - विरुद्धो धर्मो येषां ते विधर्माण:, तेषां भावो वैधर्म्यम्, विरुद्धो धर्म इति फलितार्थः । ज्ञेयत्वं ज्ञानविषयता साच सर्वत्रैवास्ति । ईश्वरादिज्ञानविषयतायाः केवलान्वयित्वात् । एवमभिधेयत्वप्रमेयत्वादिकं बोध्यम् ॥१२, १३ ॥
( प्रभा० ) सामान्यतः पदार्थो निरूपितः । श्रथ तेषामेव परस्परभेदकत्वं ज्ञापयितुं साधर्म्यं वैधर्म्यञ्च विवेचयितुमाह - " इदानीम्” इति । पदार्थनिरूपणानन्तरमित्यर्थः । “समानो धर्म इति" इति – भावप्रत्ययेन स्वप्रकृत्यर्थविशेषणीभूतो समानधर्मवति च समानजात्यादिरूपोऽर्थ उच्यते, प्रकृतिजन्यबोधे प्रकारो भावः धर्म एव प्रकारः । ज्ञेयत्वस्यार्थमाह – “ज्ञानविषयता" इति । " ज्ञानेन विषयता निरूपिता भवति । “विषयो निरूप्यः ज्ञानं निरूपकम्" इति नियमात् । श्रयमेव ज्ञानविषययोर्निरूप्यनिरूपकभावसम्बन्धः प्रकाश्यप्रकाशकभावसम्बन्ध इति चोच्यते । "केवलान्वयित्वात्" इति । यद्यपि सन्ति घटपटादिभेदेन नानाविषयाः, तन्निष्ठा विषयता श्रपि नाना सन्ति । अन्या हि घटज्ञानीयविषयता, अन्या च पटज्ञानीयविषयता । आद्या घटनिष्ठा, परा पटनिष्ठा एवमन्यत्राप्यूह्यम् । तथापि विषयतात्वेन रूपेण सा एकैव, विषयतात्वस्य सर्वविषयतासु अनुगतत्वात् । एवमीश्वरज्ञानीयविषयता: केवलान्वयिनी । नह्येकोऽपि पदार्थ एवंविधो वर्त्तते यं पदार्थमीश्वरज्ञानं न विषयीकरोति, किन्तु सर्वे पदार्थाः सर्वज्ञस्य तस्य भगवतो नित्यज्ञानगोचराः, एतदेव केवलान्वयित्वं तस्या यदत्यन्ताभावाप्रतियोगित्वं नाम । अर्थात् ईश्वरीयज्ञानविषयताया न कचिद