________________
अभावे परमतनिरासः, तत्र पारमर्ष प्रमाणम्च।
५१
मम मते नास्ति, परं मीमांसकमत एव वज्रलेपायत इति नाऽधिकरणस्वरूपोऽभाव इति सर्वमभिप्रेत्य "तत्तच्छब्दे"त्यारभ्य “स्याद्" इत्यन्तो ग्रन्थो लिखित: ।
केचित्तु-"ज्ञानविशेषस्वरूपोऽभावः, कालविशेषस्वरूपो वाऽभाव" इति मन्यन्ते, तन्मतं दूषयितुमाह-"एतेन" इति । वक्ष्यमाणदूषणेनेत्यर्थः । प्रत्युक्तम्= निरस्तम् । "अप्रत्यक्षत्वापत्तेः"--इति ।
अयमाशयः-ज्ञानं न बाह्येन्द्रियेण प्रत्यक्षं कर्तुं शक्यते यतस्तदात्मधर्मः इच्छादिवत् , इच्छाद्यात्मविशेषगुणानान्तु मनसा प्रत्यक्षं "सुखदुःखाद्युपलब्धिसाधनमिन्द्रियं मन” इति तल्ललक्षणात् । यदि गन्धाभावो ज्ञानस्वरूपं तर्हि आत्मधर्मत्वात् मनसैव वेद्यः स्यात् । नचैवं दृश्यते, घ्राणग्राह्यस्य गन्धस्य योऽभावः तस्यापि घ्राणेनैव प्रत्यक्षनियमात् । तस्मात् "ज्ञानविशेषस्वरूपोऽभाव" इत्येवंवाद्यपि व्युदस्तः।। - कालो हि न कस्यचिदिन्द्रियस्य विषयः । एतत्तु अग्रे कालग्रन्थे स्फुटीभविष्यति । एवमभावस्य कालविशेषस्वरूपत्वेऽपि पूर्ववदेव गन्धाद्यभावानामप्रत्यक्षत्वापत्तिर्दोषो बोध्यः । भवन्ति चात्र (अभावपदार्थे ) पारमर्षाणि सूत्राणि- "क्रियागुणव्यपदेशाभावात् प्रागसत्' (वै० । । १ । १)
उत्पत्त्यनन्तरं घटादिकार्यजातस्य “भवति, गच्छति, तिष्ठति" इति क्रियया, "नीलो, रक्तः, पीत" इति गुणेन च व्यपदेशो व्यवहारः, स च प्राग् उत्पत्तेः पूर्व मसदिति प्रागभावः।
"सदसत्" ॥२॥ सद्-विद्यमानमेव च मुद्रादिप्रहारेण असत् ध्वस्त इतिप्रत्ययवेद्यो ध्वंसाभावः।
"सच्चासत्" ॥४॥ “घटः पटो न" इतिप्रतीतिवेद्य: योऽसद्-अन्योन्याभावः अर्थात् सदेव घटादिपदार्थः असदिति व्यवहियते पटादिरूपेण । तत्र घटादौ पटादेः तादात्म्याभावो यः स एवान्योन्याभाव इत्यर्थः।
“यच्चान्यदसदतस्तदसत्" ॥२॥ यच्चोक्काभावत्रितयादन्यः असत्="वायौ रूपं नास्ति' इति यथा कालत्रयेऽपि वायुरूपेऽधिकरणे रूपसंसर्ग निषेधयति तदसत् सोऽत्यन्ताभाव इत्यर्थः ।
एवञ्च-प्रागभावस्योत्तरोऽवधिः, प्रध्वंसाभावस्य पूर्वोऽवधिः । अन्योन्याभाव: प्रतियोगिसमानाधिकरण: । अत्यन्ताभावस्तु उक्तत्रितयविधर्मा । नास्य पूर्वोत्तरावधी अनाद्यनन्तत्वात् , नापि चायं प्रतियोगिसमानाधिकरण इति निर्गलितोऽर्थः ।
इहादन्यपि किञ्चिदधिकं विज्ञेयम् । तथाहि-अत्यन्ताभावोऽन्योन्याभावश्च प्रत्येकं द्विविधः । एकमात्रपर्याप्तवृत्तिकधर्मावच्छिन्नप्रतियोगिताकः । व्यासज्यवृत्ति. धर्मावच्छिन्नप्रतियोगिताकश्च । तत्र-आद्यो यथा-घटत्वावच्छिन्नाभावः । घटत्वादेः
* तथाच-अधस्ताद्व्याख्यातोऽस्माभिः ।