________________
विवृतिप्रभोपेताया न्याय सिद्धान्तमुक्तावल्याः
[ प्रत्यक्षखण्डे
(प्रभा०) “अभावोऽधिकरणस्वरूप" इति मन्वानः प्राभाकरः शङ्कते - " ननु " इति । तथाच - कयाचिद्व्यपेक्षया भावस्वरूपात् नाभावः पृथक् पदार्थ इति मीमांसकाभिप्रायः । यदाहुः - "भावात्मकमभावो हि कयाचित्तु व्यपेक्षया" इति ।
सिद्धान्ती निषेधयति - " इतिचेन्न " इति । अनन्तेति — अनन्तान्यधिकरणानि सन्ति, तथाचैकैकस्य रूपाद्यभावस्यानन्ततेति महगौरवं मीमांसकमते । “अधिकरणातिरिक्तस्वरूपोऽभाव" इतिकल्पनायान्तु लाघवमेव शरणम् । "अतिरिक्त " - इति । भावातिरिक्तेत्यर्थः । अधिकरणातिरिक्ताभावस्वरूपपक्षे दोषान्तराभावोऽपीत्याह - " एवञ्च" इति । श्रस्यायमर्थः - श्रधिकरणापेत्तयाऽभावस्य - रिकत्वे च श्राधाराधेयभावः अर्थात् भूतलमाधारः घटाभाव श्रधेयः, तौ चेत् स्वतन्त्रौ स्यातां तदैव तयोः उक्तः सम्बन्धोऽपि सम्पत्तुमर्हति । यदि भूतलमेव घटाभावस्वरूपं तर्हि कथमुक्तः सम्बन्ध: स्यात् । नह्यभेदे श्राधाराधेयभावसम्बन्ध इति भावः । अत एवोक्तं न्यायमञ्जूषायाम् — “ प्रायशो लोके भिन्नयोरेवाधाराधेयभावः प्रसिद्धः, न त्वभिन्नयोः । स चाऽस्माकं सूपपादः । भवतान्तु — “घटाभावे न घट:, घटभेदो न घटः" इत्यादिप्रतीतिसिद्धाधाराधेयभाववत् श्रत्रापि गौणतया कल्पने प्रयासगौरवमित्यर्थः ।
५०
अधिकरणातिरिक्तस्वरूपपत्ते एवाभावस्य प्रत्यक्षं व्यवस्थापयन् मीमांसकमते तु तस्यासम्भवमेवेति सूचयन्न ह - " एवञ्च" इति ।
तत्तच्छब्देति--तस्य तस्य शब्दस्य, गन्धस्य, रसादेश्व अभावानाम् । अर्थात् -- शब्दगन्धरसादिप्रतियोगिकाभावानां प्रत्यक्षत्वमप्युपपद्यते । अन्यथा= अभावस्याधिकरणस्वरूपत्वे तत्तदधिकरणानाम् = शब्दगन्धाद्यधिकरणानाम् । तत्तः दिन्द्रियाद्यग्राह्यत्वात् = श्रोत्रघ्राणादीन्द्रियागोचरत्वात् प्रत्यक्षत्वं न स्यादित्यर्थः ।
श्रथवा यथा न्यायमते " घटाभावो गन्धाभाववान्” इतिप्रतीतौ घटाभावो गन्धाभावाधिकरणतया प्रत्यक्षं भासते, अर्थात् घटाभावस्वरूपमेव गन्धाभाव:, श्रथचतयोरस्त्याधाराधेयभावकल्पना तथाऽन्स्मन्मतेऽधिकरणस्वरूपस्याप्यभावस्य श्राधाराधेयभावे न बाधकं पश्याम इति मीमांसकेन स्वसिद्धान्ते स्थापिते दूषणान्तरमाह" एवञ्च" इति । " येनेन्द्रियेण यद्=या व्यक्तिः गृह्यते तेनेन्द्रियेण तनिष्ठा जातिः, तद्गुणः, तदभावश्च गृह्यत" इत्यस्ति नियमः । तेन श्रोत्रग्राह्यस्य शब्दस्य तदभावस्य च श्रोत्रेणैव ग्रहः । घ्राणग्राह्यस्य गन्धस्य तदभावस्य च घ्राणेन ग्रहः, रसनाग्राह्यस्य रसस्य तदभावस्य च रसनयैव ग्रह इत्यादि सर्वत्र बोध्यम् ।
यदि त्वभावोऽधिकरणस्वरूप एव स्यात्तर्हि भूतलस्वरूपस्य शब्दाभावस्य श्रोत्रेन्द्रियेण प्रत्यत्तं स्यात्, नच तथा दृश्यते । सोऽयं दोषोऽधिकरणातिरिक्ताभाववादिनो * एनमर्थ हृदि कृत्वैवाह - " उपपद्यत " इति भावः ।
1