________________
अत्यन्ताभावसामयिकाभावी, अभावस्याधिकरणाद्यात्मकत्वखण्डनञ्च । ४६
(प्रभा०) यत्र कालत्रयेऽपि प्रतियोगी न स्यात् तत्रैव अत्यन्ताभावव्यवहारः, अतो नवीनमते घटवद्देशेऽत्यन्ताभावव्यवहारवैयर्थ्य स्पष्टमेवेति शङ्कोद्धरणकामोऽत्यन्ताभावस्य केवलान्वयितां व्यवस्थापयन्नाह—“यत्र तु"-इति । तथाच-तद्भूतलविशिष्टघटकालसंयोग एव विद्यमानस्याप्यत्यन्ताभावस्य प्रतीतेः प्रतिबन्धकः । तेन घटानयनानन्तरं न घटात्यन्ताभावबुद्धिः, अर्थात् घटात्यन्ताभाववति देशे घटानयनानन्तरं घटकालो भूतलघटात्यन्ताभावयोः संसर्गप्रतीति विघटयति । अत एव "इह भूतले घटो नास्ति' इति प्रतीतिर्न जायते, नतु तत्र अत्यन्ताभाव एव नास्तीति मन्तव्यम् । तस्य नित्यत्वात् केवलान्वयित्वाच्चेति भावः । मतान्तरमाह-"तत्र" इति । चतुर्थोऽयमभाव इति=सामयिकाभाव इत्यर्थः । कालविशेषविशिष्टस्वरूपस्य संसर्गोपगमत्वात् घटवति “घटो नास्ति' इति प्रतीत्यभावोपपत्तौ चतुर्थसंसर्गाभावे सामयिकाभावनामनि अभावे मानाभाव इत्यस्वरसः "कोचित्" इत्यनेन सूचितः । ... ध्वंसप्रागभावयोरत्यन्ताभावस्य च भिन्नाधिकरणतेति प्राचां मतमाह"अत्र' इति । “श्यामे घटे रक्को नास्ति", "रक्के घटे श्यामो नास्ति' इति प्रतीतिद्वयं नात्यन्ताभावं विषयीकरोतीत्याह-"श्यामघट" इति ।
अत्रायमाशयः-नहि "नास्ति' इत्याकारा प्रतीतिः अत्यन्ताभावमेव विषयीकरोतीति नियमः । किन्तु प्रागभावध्वंसाभावाधिकरणादन्यत्र उक्ताकारा प्रतीति: अत्यन्ताभावविषयिणी, प्रागभावध्वंसाभावाधिकरणे तु सा प्रागभावं ध्वंसं वा यथायोगं विषयीकरोति नात्यन्ताभावम् , प्रागभावध्वंसाभावाभ्यां सहात्यन्ताभावस्य विरोधात् । अन्यथा वायौ रूपमिव प्रागभावध्वंसाभावाधिकरणे कालत्रयेऽपि प्रतियोगिप्रत्ययो न स्याद् इति प्राचां नैयायिकानां मतम् ।।
एतद्विषये नव्यमतमाह-"नव्यास्तु" इति । अस्य-"पाहु"रित्यनेनाग्रेऽभिसम्बन्धः । तत्र ध्वंसप्रागभावयोः । अत्यन्ताभावेन सहेति शेषः । ध्वंसादिकालावच्छेदेन ध्वंसादिसमानकालिकसम्बन्धेनापि । यस्मिन्काले ध्वंसः प्रागभावो वा तस्मिन् कालेऽपीत्यर्थः । तथाच-ध्वंसप्रागभावाभ्यां सह नात्यन्ताभावविरोध इति 8 नव्यमतसारः। . (मुक्का०) नन्वस्तु अभावानामधिकरणात्मकत्वं लाघवादिति चेन्न, अनन्ताधिकरणात्मकत्वकल्पनापेक्षयाऽतिरिक्तकल्पनाया एव लघीयस्त्वात् । एवञ्च-आधाराधेयभावोऽप्युपपद्यते । एवञ्च-तत्तच्छब्दगन्धरसाद्यभावानां प्रत्यक्षत्वमुपपद्यते । अन्यथा तत्तदधिकरणानां तत्तदिन्द्रियाणामग्राह्यत्वादप्रत्यक्षत्वं स्यात् । एतेन ज्ञानविशेषकालविशेषाद्यात्मकत्वमत्यन्ताभावस्येति प्रत्युक्तमप्रत्यक्षत्वापत्तेः।
ॐ अयं विषयो विस्तरेण मत्प्रणीतायाम् "अभावदीपिकायां" द्रष्टव्यः ।