________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
"तादात्म्यत्वेन तादात्म्यसम्बन्धावच्छिन्न" इत्यर्थो ग्राह्यः । तादात्म्यत्वञ्च तद्वृत्तिरसाधारणो धर्मः । यथा-"घटवृत्तिरसाधारणो धर्मो घटत्वम्, पटवृत्तिरसाधारणो धर्मः पटत्वम्, कपिवृत्तिश्च कपित्वम्" इत्यादि । नहि मूलवृत्तवृत्तिः कपिसंयोगः कपेरसाधारणो धर्मः, किन्त्वासावागन्तुकः । तथाच--प्रदर्शितरीत्या विवक्षायां सत्यां नैव कपिसंयोग्यत्यन्ताभावेऽन्योन्याभावलक्षणस्यातिव्याप्तिः ।
* संसर्गाभावं विभजते-"प्रागभाव" इति । मुक्तावल्यां प्रागभावं लक्षयति-"विनाश्यभावत्वम्" इति । ध्वंसेऽतिव्याप्तिवारणाय विनाशीति । "इह कपाले घटो भविष्यति, इह तन्तुषु पटो भविष्यति' इति प्रत्ययसाक्षिकः उत्पत्तेः पूर्व कार्यस्याभावो यः स प्रागभावः । कार्यस्योत्पत्तेः प्राक् स्वप्रतियोगिसमवायिकारणवृत्तिः, अनादिः सान्त इत्युच्यते ।
ध्वंसाभावं लक्षयति-"जन्याभावम्” इति । प्रागभावेऽतिव्याप्तिवारणाय जन्येति । स च "घटो ध्वस्तः, पटो ध्वस्त:" इति प्रत्ययविषयः कार्यस्योत्पत्त्यनन्तरं स्वप्रतियोगिसमवायिकारणे वर्त्तते । सोऽयं सादिरनन्तो भवति । यदि ध्वंसस्याप्यन्तः स्यात् तर्हि विनष्टस्य घटादेः पुनरप्युन्मजनं भवेत् , अतोऽनन्त एव सः ।
अत्यन्ताभावं लक्षयति--"नित्य" इति । ध्वंसादिवारणाय नित्यपदम् ।
अत्यन्तमभावः अर्थात् त्रैकालिको यो नित्योऽभावः । किमुक्तम् ? योऽभावः वस्तुसत्ताया: पूर्वमप्यासीत्, पश्चादपि भविष्यति, वस्तुसत्ताकालेऽपि वर्तते, परन्तु प्रत्यायकसम्बन्धाभावान्नास्तीव भाति, सोऽभावोऽत्यन्ताभावः । “त्रैकालिकत्वे सति संसर्गावच्छिन्नप्रतियोगिताक" इत्यर्थः । यथा-"भूतले घटो नास्ति' इति । एवं निकृष्टे लक्षणे ध्वंसप्रागभावयोरतिव्याप्तिवारणाय “त्रैकालिक"विशेषणनिवेशः । भेदे अन्योन्याभावे अतिव्याप्तिवारणाय "संसर्गपदोपादानम्” इति बोध्यम्। ....... (मुक्ता०) यत्र तु भूतलादौ घटादिकमपसारितं पुनरानीतञ्च तत्र घटकालस्य सम्बन्धाघटकतया अत्यन्ताभावस्य नित्यत्वेऽपि घटकाले न घटात्यन्ताभावबुद्धिः । तत्र उत्पादविनाशशाली चतुर्थोऽयमभाव इति कचित् । अत्र ध्वंसप्रागभावयोरधिकरणे नात्यन्ताभाव इति प्राचीनमतम् । श्यामघटे रक्तो नास्ति, रक्तघटे श्यामो नास्तीति धीश्च प्रागभावं ध्वंसं चावगाहते नतु तदत्यन्ताभावम् । नव्यास्तु-तत्र विरोधे माना. भावात् ध्वंसादिकालावच्छेदेनाप्यत्यन्ताभावो वर्तत इति प्राहुः ।
* इदमवश्यं ध्यातव्यं यद्-भिन्नविभक्त्यन्तपदघटितनजुल्लिखितवाक्यजन्यप्रतीतिः अत्यन्ताभावं विषयीकरोति । समानविभक्त्यन्तपदघटितनजुल्लिखितवाक्यजन्यप्रतीतिस्तु अन्योन्याभावविषयणीति । संसर्गाभावत्वञ्च-तादात्म्येतरसंसर्गावच्छिन्नप्रतियोगिताकाभावत्वमिति सम्प्रदायः । भेदेतराभावत्वमिति तु नव्याः । अधिकमग्रे वक्ष्यामः ।