________________
श्रम्योन्याभावप्ररूपणम् ।
४७
श्रन्योन्याभावं लक्षयति--" अन्योन्याभावत्वम्” इति । अन्योन्यस्मिन् तादात्म्येनाऽभवनमित्यन्योन्याभाव इत्यर्थः । " तादात्म्यम्" इति — तस्यात्मा स्वरूपं नदात्मा तदात्मनो भावः तादात्म्यम् = श्रभेद इत्यर्थः । तादात्म्य प्रतियोगिताया अवच्छेदको धर्मः । स च "घटो न पटः" इत्यादौ पटत्वादिरेव । “घटः पटो न भवति " इत्यादी “घटः पटात्मा न भवति" इत्यर्थो लभ्यते । एवञ्च – पटतादात्म्यस्याभावः अर्थात् पटतादात्म्येनावच्छिन्ना या पटनिष्ठा प्रतियोगिता तन्निरूपको भेदः घंटे वर्त्तत इति * सिद्धं भवति ।
इदन्तु बोध्यम् - नव्शब्देन विना यत्र यस्य प्रतीति:, तत्रैव नव्शब्दसमभिव्याहारे तस्य निषेधप्रतीतिर्भवतीति नियमः । यथा - " घटः पटः" इत्यत्र " नीलो घट" इतिवत् समानविभक्तित्वादभेदसंसर्गप्रतीतिः । तस्या एवोभयोः पदयोर्मध्ये घटो न घट: " इति नत्रा निवेशेन निषेधः क्रियते, सोऽयमभेदसंसर्गनिषेधको - भावोऽन्योन्याभाव इत्यर्थो निर्गच्छति ।
अत्रेदमाभाति -- नहि यं कचिदभावं प्रति येन केनापि सम्बन्धेन प्रतियोगिनो विरोधः, किन्तु प्रतियोगितावच्छेदकसम्बन्धेनैव प्रतियोगी अभावस्य विरोधी भवति । तथाच — श्रन्योन्याभावस्य प्रतियोगितावच्छेदकसम्बन्धः तादात्म्यमेव । श्रत एव—“तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकोऽभावोऽन्योन्याभाव" इति लक्षणं निष्कृष्यते-
यस्यायमर्थः - - श्रात्मन:- स्वरूपस्य यः सम्बन्धः स तादात्म्यसम्बन्धः, प्रतियोगिनो भावः प्रतियोगिता । तादात्म्यसम्बन्धेनावच्छिन्ना विशिष्टा इति तादात्म्यसम्बन्धावच्छिन्ना, तादृशी चासौ प्रतियोगिता यस्य स तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकः । तादात्म्यसम्बन्धेन च पटः स्वस्मिन्नेव वर्त्तते, घटादौ च न वर्त्तत इति तत्र=घटादौ पटान्योन्याभावो बोध्यः । तदा च "घटो न पट" इत्यभिलापप्रकारो भवति ।
तादात्म्यत्वेन तद्गताऽसाधारणधर्मेण तादात्म्यसम्बन्धो विवक्षणीयः । तेन संयोगावच्छिन्नप्रतियोगिताके संयोग्यत्यन्ताभावे नातिव्याप्तिः ।
अयम्भावः - " मूले वृक्षे न कपिसंयोगः शाखायाम्" इत्याकारकप्रतीतौ संयोगी कपिः, तस्य मूलावच्छेदेन वृत्ते श्रत्यन्ताभावः, तदीया प्रतियोगिता कपिनिष्ठा, साच संयोगसम्बन्धेन श्रवच्छिद्यते = विशिष्यते । एवञ्च - तादात्म्यसम्बन्धः प्रकृते संयोगसम्बन्धोऽपि तदवच्छिन्नप्रतियोगिताकाभावः संयोगिनः कपेरत्यन्ताभावोऽपि ग्रहीतुं शक्यते । तेनाऽन्योभावस्य लत्तणमत्यन्ताभावे - संयोग्यत्यन्ताभावे श्रतिप्रसक्रम्, तामप्रसक्तिं वारयितुम् अन्योन्याभावलक्षणान्तर्गतस्य " तादात्म्यसम्बन्धे' 'तिपदस्य
* अन्योन्याभावलक्षणं समन्वितं भवतीत्यर्थः ।