________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्कावल्याः
[प्रत्यक्षखण्डे
अयम्भावः यद्यपि संसर्गो नाम सम्बन्धमात्रम् , तथापि प्रकृते वृत्तिनियामकसम्बन्ध एव संसर्गपदेन गृह्यते । वृत्तिश्चाधेयता । येन सम्बन्धेन प्राधेयपदार्थः स्वाधारे वर्त्तते सः सम्बन्धो वृत्तिनियामक इत्युच्यते । सच संयोग-समवायस्वरूप-कालिक-दैशिकविशेषणतादिरूपोऽनेकविधः । एतद्भिन्ना वृत्त्यनियामकाः । ते च गगनादिसंयोगाङ्गुलिद्वयसंयोगविषयत्व--विषयित्वा-नुयोगित्व-प्रतियोगित्व--निरूपकत्व-निरूप्यत्व-तादात्म्यादयोऽनन्ता एव।।
एवञ्च–संसर्गावच्छिन्न-(वृत्तिनियामकसम्बन्धावच्छिन्न)-प्रतियोगिकोऽभावः संसर्गाभावः। यस्याभाव: स तस्य प्रतियोगी, प्रतियोगिनो भाव: । प्रतियोगिता । प्रतियोगितायाश्चावच्छेदको धर्मः सम्बन्धश्चैतवयं भवति । धर्मसम्बन्धाभ्यां हि प्रतियोगिताऽवच्छिद्यते अर्थात् विशिष्यते, अत एव सा तदवच्छिन्नेत्यभिधीयते । तत्र यः प्रतियोगितायाः समनियतो धर्मः स प्रतियोगितावच्छेदकः । प्रतियोगी स्वाधिकरणे येन सम्बन्धेन वर्तते स सम्बन्धः प्रतियोगितावच्छेदकसम्बन्धः । प्रतियोगी येन धर्मेण अवच्छिद्यते विशिष्यते ( इतरेभ्यो व्यावय॑ते ) स धर्म: प्रतियोगितावच्छेदकधर्मः । घटभूतलयोर्यः संयोगसम्बन्धः स प्रतियोगितावच्छेदकसम्बन्धः । एवञ्चतद्वयमेव घटनिष्ठप्रतियोगितावच्छेदकमिति सरलमार्गः ।
इदञ्च--"नास्ति घटो गेह इति सतो घटस्य गेहसंसर्गप्रतिषेधः" (वै० ।। १।१०) इति कणादसूत्रमूलकमेव । सूत्राशयस्तु--गेहे-गृहे घटस्य यः संसर्गः संयोगस्तस्य प्रतिषेधोऽभावः, स च यदि कदाचिदपि गेहे घटो न स्यात् तदा तदत्यन्ताभाव एव । भविष्यतो घटस्य स्वाधिकरणे कपालादौ योऽभाव: स प्रागभावः । भूतस्य तस्यैव तत्र योऽभावः स प्रध्वंसाभावः इति । इत्थञ्च--"तादात्म्यातिरिक्तसम्बन्धावच्छिन्नप्रतियोगिताकाभावः । संसर्गाभावः" इति लक्षणं फलति ।
* कार्यकारणयोस्तादात्म्यवादिनो मते तादात्म्यं वृत्तिनियामकमेव ।
+ "तस्य भावस्त्वतला" (५। १ । ११६) इति सूत्रण प्रतियोगिशब्दात् भावे तल् । तलन्तं स्त्रियाम् । ... संसर्गेण सम्बन्धेन (तादात्म्यातिरिक्तन) अवच्छिन्नप्रतियोगिताकोऽभाव: संसर्गाभाव इति मध्यमपदलोपी समासः शाकपार्थिवादिवत् ज्ञातव्य इति न्यायकोषः ।
इदमपरमावश्यकम्बोध्यम् -संसर्गाभावो ननादिनिपातेन धातुना च बोध्यते । तत्र निपातेन प्रातिपदिकार्थाभावस्य बोधने अनुयोगिनि=अनुयोगिवाचकपदे सप्तम्यपेक्षा । यथा"गेहे घटो नास्ति' इत्यादौ। अत्र घटाभावस्य अनुयोगि गेहम्, तद्वाचकपदं गेहपदम्, तच्च सप्तम्यन्तम् । विभक्त्यर्थसंसर्गाभावस्य धात्वर्थादौ बोधने तु नायं नियमः । यथा-"गगनं ने पश्यति, न कलशं भक्षयेत्' इत्यादौ दर्शने गगनकर्मत्वस्य, कलाभक्षणे च बलवदनिष्टासाधनत्वस्य ना संसर्गाभावबोधनात् न तत्र सप्तम्यपेक्षा।