________________
अभावविभागः।
४५
(का०) अभावस्तु द्विधा संसर्गान्योन्याभावभेदतः।
प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एव च ॥१२॥
एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते । (मुक्ता०) अभावं विभजते-अभावत्वं द्रव्यादिषट्कान्योऽन्याभाववत्वम् । संसर्गाभावान्योन्याभावभेदादित्यर्थः । अन्योन्याभावस्यैक: विधत्वात्तद्विभागाभावात्संसर्गाभावं विभजते-प्रागभाव इति । संसर्गाभावत्वम्-अन्योन्याभावभिन्नाभावत्वम् । अन्योन्याभावत्वं तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वम् । विनाश्यभावत्वं प्रागभावत्वम् ।। जन्याभावत्वं ध्वंसत्वम् । नित्यसंसर्गाभावत्वमत्यन्ताभावत्वम् । . (प्रभा०) "अभावस्तु" इति । अभावं लक्षयति-"अभावत्वम्” इति । द्रव्यादिषड्भावपदार्थप्रतियोगिकभेदवत्त्वमित्यर्थः । नजानुल्लिखितधीविषयको भावः तद्भिन्नोऽभावः नझुल्लिखितप्रतीतिविषयक इत्यर्थः । किं वा * प्रतियोगिज्ञानाधीनज्ञानविषयत्वमभावत्वम् . तद्भिन्नं भावत्वम् । अभावो द्विधा । द्विप्रकारमभिनीय दर्शयति-"संसर्ग-"इत्यादिना । कारिकायां “संसर्ग-"इति- संसर्गश्च अन्योन्यञ्च । तयोरभाव: स चासौ भेदः, तस्मात् संसर्गान्योन्याभावभेदत: पञ्चम्यास्तसिल । एतदभिप्रायेण मुक्कावल्यां व्याख्यातं “संसर्गाभावान्योन्याभावभेदादित्यर्थः" इति । क्रमेण द्वयोरभावयोर्मध्ये प्रथमं संसर्गाभावं लक्षयति-"संसर्गाभावत्वम्" इति । अन्योन्याभावेतिव्याप्तिवारणाय अन्योन्याभावभिन्नेति । घटपटादिभावपदार्थेष्वतिव्याप्तिवारणाय अभावपदमुपात्तम् ।
* "इह कपाले घटो भविष्यति, इह तन्तुषु पटो भविष्यति' इति प्रत्ययगोचरः प्रागभावः । “घटो ध्वस्तः पटो ध्वस्त:" इत्याकारकप्रतीतिविषयो ध्वंसाभावः । एतौ च नैव नझुल्लिखितप्रतीतिगोचरौ इत्यत: सिद्धान्तलक्षणमाह-प्रतियोगिज्ञानेति ।
अयमाशयः-"कपाले घटो नास्ति' इत्याकारकप्रतीतिविषयः घटप्रागभावः । नहि प्रतियोग्युपादानकारणे सामयिकाभावात्यन्ताभावी कदापि भवतः तस्माद् घटोत्पत्तेः प्राग् उक्ताकारा प्रतीतिः घटप्रागभावं विषयीकरोति । मुद्गरपातोचरं सैव प्रतीतिश्च घटध्वंसं विषयीकरोति, एवं प्रतियोग्युपादानकारणं विहायान्यत्र स्थले यथासम्भवं “घटो नास्ति' इत्याकारा प्रतीतिरत्यन्ताभावं सामयिकाभाव-चावगाहत इति प्राचां मते सर्वेऽभावा: नझुल्लिखितप्रतीतिगोचराः ।
+ "द्वन्द्वान्त श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते” इति नियमाद् अभावपदस्योभयत्राsन्वयार्थ द्वन्द्वं विगृह्य दर्शयति-"संसर्गश्च अन्योन्यचे"ति । प्राचीनप्रभामञ्जूषादिषु बहूपयुक्तोऽपि कृतो विचारोऽस्माभिर्बालानुपयोगीति मत्वा न सारल्यकटाक्षतां नीत इति सन्तोऽव. धारयन्तु।