________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[ प्रत्यक्षखण्डे
श्रयमाशय: - नहि रक्तरूपोत्पत्तिकाले श्यामरूपं विद्यते येन श्यामरूपवत्ताप्रतीतिः स्यात्, समवायस्यैक्येऽपि तत्तद्रूपनिरूपितस्यैव तस्य तथाविधधीजनकत्वादिति समाधानमवोचामैव । तव तु अभावस्य वैशिष्ट्यं नित्यं तेन स्यादेव घटवत्ताकालेऽपि घटाभावप्रतीतिरिति महद्वैषम्यम् ।
४४
द्वितीयकल्पे दोषमाह – “वैशिष्ट्यस्यानित्यत्वे " इति । तथा चोत्पत्ति - विनाशकल्पनया अनन्तवैशिष्ट्यकल्पने तवैव गौरवमिति भावः ।
ननु - यदि घटाभावभूतलयोर्न वैशिष्ट्यं सम्बन्धस्तर्हि कथं “घटाभाववद्भूतलम्" इति भूतले घटाभाववत्ताप्रत्ययः ? | स्वरूपसम्बन्धस्वीकारे तु घटाभावकाल इव घटवत्तकालेऽपि भूतले घटाभावप्रतीतिस्तवापि मते प्रसज्येत द्वयोः स्वरूपसम्बन्धस्य सत्त्वादित्याशङ्कायां सम्भाव्यमानायां समाधानमाह - " एवञ्च" इति । श्रयमत्र सिद्धान्तिग्रन्थस्याऽभिप्रायः
यत्र घटात्यन्ताभावबुद्धिर्जायते तत्र तत्क्षण विशिष्ट एवाभावो भासते नतु केवलः । श्रर्थात् श्रभावप्रत्ययकाले श्रभावप्रत्ययान्तःपाती तत्तत्क्षणात्मकः कालोऽप्यस्माकमभिमतः । यद्यपि घटात्यन्ताभावः स्वरूपेण भूतलादौ नित्यः तेन घटसत्ताकालेऽपि “घटाभाववद्भूतलम्" इत्याकारेण प्रत्ययेन भाव्यम्, तथापि प्रदर्शितज्ञामकालिकक्षणात्मकविशेषणाभावान्न घटसत्ताकाले घटाभावधीः समुन्मिषति । तादृशक्षणात्मक विशेषणाभावादेव विशेषणाभावप्रयुक्तविशिष्टाभावः = घटात्यन्ताभावो नापन्होतुं शक्यते, तेन तस्य नित्यत्वेऽपि न घटकाले घटाभावधीरिति नैव मम मते दोषलेशोऽपि । एवञ्च – दर्शितयुक्त्या घटाभावभूतलयोर्न स्वरूपमात्रं सम्बन्धः नापि वैशिष्ट्यं, किन्तु "क्षणात्मक विशेषणविशिष्टस्वरूपविशेष एव " इति भावः ।
इत्थञ्चेत्यादिफक्किकान्तरार्थस्तु -- तत्तत्कालीनत सद्भूतलादिकम् = घटाभावबद्भूतलमिति ज्ञानकालीनभूतलादिकम् । तत्तदभावानाम् = यस्य यस्याभावस्य बुद्धिः तस्य तस्याभावस्य सम्बन्धः । अर्थात् भूतलेन सहाभावीय विशेषणताख्यः सम्बन्धः ज्ञेय इति शेषः ।
केचित्तु –— भूतलं घटविशिष्टं, घटाभावविशिष्टं वेति प्रत्ययबलाद् यत्र यस् यः सम्बन्धः स एव तत्र तस्य वैशिष्ट्यम् । यथाचोकज्ञाने घटसम्बन्धः घटाभावसम्बन्धो वा भूतलेऽवगम्यते स एव तयोर्वैशिष्ट्यम् । यथा वा " दण्डी पुरुष” इति ज्ञाने “दण्डसम्बन्धः पुरुष" इत्याहुः । श्रधिकं रामस्वादिषु द्रष्टव्यम् ॥११॥
* अर्थात् वैशिष्ट्य स्यानित्यत्वपक्षे क्लृप्तस्वरूपसम्बन्धं परित्यज्य अनन्तसम्बन्धान्तर कल्पने महद् गौरवम्, स्वरूपविशेषसम्बन्धाङ्गीकारे तु घटानयनदशायां तस्याभावान्न घटकाले घटाभाववन्ताप्रत्ययप्रसङ्गः ।