________________
अभावीयवैशिष्ट्यस्य सम्बन्धान्तरत्वखण्डनम् ।
४३
रूपवत्ताप्रतीतिहेतुः, वायौ च रूपात्यन्ताभावान्न रूपप्रतियोगिकः समवाय इति समाधातुराकृतकम्।
(मुक्का०) न चैवमभावस्य वैशिष्ट्यं सम्बन्धान्तरं सिध्येदिति वाच्यम्, तस्य नित्यत्वे भूतले घटानयनानन्तरमपि घटाभावबुद्धिप्रसङ्गात् । घटाभावस्य तत्र सत्वात् । तस्य नित्यत्वात् , अन्यथा देशान्तरेऽपि तत् प्रतीतिर्न स्यात् । वैशिष्ट्यस्य च तत्र सत्त्वात् । मम तु घटे पाकरक्ततादशायां श्यामरूपस्य नष्टत्वान्न तद्वत्ताबुद्धिः । वैशिष्ट्यस्याऽनित्यत्वे त्वनन्तवैशिष्ट्यकल्पने तवैव गौरवम् । इत्थश्च तत्तत्कालीनतत्तद्भूतलादिकं तत्तदभावानां सम्बन्धः ॥१२॥
____ (प्रभा०) एवमतिरिकसमवायसिद्धौ तद्वत् भूतलादिषु वैशिष्ट्याख्यसम्बन्धान्तरसिद्धिप्रसङ्गमाशङ्कय विकल्पद्वयं कृत्वा परिहरति--"नच" इत्यादिग्रन्थेन । "अभावस्य वैशिष्ट्यं सम्बन्धान्तरं सिद्धयेद्" इति पूर्वपक्षिणो ग्रन्थः । “घटाऽभाववद्भूतलम्" इत्याकारिकाबुद्धिः संसर्गतानिरूपिका विशिष्टबुद्धित्वात् दण्डी पुरुष इतिबुद्धिवत्" इत्यनुमानात् वैशिष्ट्यसिद्धिरित्याशयः ।।
सिद्धान्ती अाह-“घटाभाववद्भूतलम्' इत्यत्र ॐ वैशिष्ट्यं यदि सम्बन्धान्तरं तत् किं नित्यमनित्यं वा? । नाद्यः । तस्य वैशिष्ट्यस्य नित्यत्वे घटानयनान्तरमपि3 घटानयनदशायामपि घटसत्त्वदशायामपीत्यर्थः । घटाभावबुद्धिप्रसङ्गात् घटाभाववद्भूतलम् इत्याकारकप्रतीतिप्रसङ्गात् ।।
नच-वैशिष्ट्यस्य सत्त्वेऽपि घटानयनकाले भूतले घटाभावाभावादेव न घटाभावविषयिणी बुद्धिरिति वाच्यम् , तस्य घटाभावस्य नित्यत्वात् । अत एव तत्र भूतले । घटाभावस्यम्घटप्रतियोगिकाभावस्य सत्त्वात् । विपक्षे दण्डमाह"अन्यथा" इति । यदि घटाभावो नित्यो न स्यात् तदा देशान्तरेऽपि घटशून्यदेशोऽपि । तत्प्रतीतिः घटाभावबुद्धिः न स्यात् । घटत्वावच्छिन्नाभावस्यैकत्वादेव अनित्यघटाभावपक्षे घटशून्यदेशेऽपि नैव घटाभावप्रतीतिः स्यादिति भावः । एवञ्चवैशिष्ट्यस्य-घटाभावभूतलयोरतिरिक्तस्य वैशिष्ट्याख्यस्य सम्बन्धस्य, नित्यतया घटानयनदशायामपि सत्त्वात्-विद्यमानत्वात् स्यादेव घटाभावबुद्धिरिति शेषः ।
ननु--तवापि सिद्धान्तिनो मते यत्र पाकेन=विलक्षणतेजःसंयोगेन घटो रक्को जात: तत्र श्यामरूपस्यापि समवाय: नित्यसम्बन्धो वर्त्तते, परं श्यामरूपवत्ताबुद्धिर्न नायते यथा, तथा ममापि वैशिष्ट्यस्य नित्यत्वे घटसत्तादशायां न घटाभावबुद्धिर्भवतीति समानौ चोद्यपरिहारौ किमित्यहमेवोपालभ्य इत्यत पाह--ममत्विति ।
* यस्य यत्र यः सम्बन्धः स एव तत्र तस्य वैशिष्टयम् । यथा-"दण्डी पुरुषः" इति शाने दण्डसम्बन्धः पुरुषे अवगम्यते । ( न्या० को०)